________________ 548 काव्यमाला। मते चासाकमुद्भेदो विद्यते नैव भाविकात् / व्यक्ताव्यक्तोभयाख्याभिस्त्रिविधः सोऽपि कथ्यते // 8 // खेत्यादि / निजाशयकथनमन्यकथनमन्यापदेशश्च भाविकम् / भावे कवेरभिप्राये भवं भाविकमित्यन्वर्थनामतापि / उद्भेदभाविकयोरभेदमाह-मत इति / सोऽपि उद्भेदोऽपि // तत्र भाविकभेदेषु स्वाभिप्रायकथनं यथा'णावज्झइ दुग्गेज्झिआ दिट्ठम्मि जम्मि भिउडिआ जत्थ ण अव्वाहारओ धिप्पइ आहासत्तए / विच्छुहइ अहिणिदए जत्थ ण सो वअंसिआ तं मे कहउ माणसं जइ मे इच्छहिं जीअअम् // 232 // नाबध्यते दुर्गृहीता दृष्टे यस्मिन् भृकुटिका यत्र नाव्याहारो गृह्यते आभाषमाणे / विक्षुभ्यतेऽभिनिन्द्यते यत्र न स वयस्यया तं मे कथय मानं यदि मे इच्छसि जीवनम् // ] अत्र घूभेदासंभाषणप्रियतमावक्षेपान् प्रत्यनभिमतप्रतिपादनरूपस्याभिप्रायस्य कथितत्वादिदं खाभिप्रायकथनं नाम भाविकम् // णावजइ इत्यादि / “नाबध्यते दुर्ग्राह्या दृष्टे यस्मिन् भृकुटिका यत्र न च (चा)व्याहारो गृह्यते आभाषमाणे / विक्षुभ्यतेऽभिनीयमाने यत्र न स वयस्यया तं मे कथय मानं यदि मे इच्छसि जीवितम् // " इह यस्मिन् दृष्टे दुर्घहा भृकुटिनोबध्यते समन्तान्न बध्यते यत्राभाषमाणेऽव्याहारो न च गृह्यते / यत्राभिनीयमाने वयस्यया स न क्षुभ्यते तं मानं मम कथय यदि मम जीवनमिच्छसि / अत्रानाकासितरूपस्याभिप्रायस्य कथनम् // 1. 'कहहु' क. ख. ग. 2. 'जीइअम्' इति घ. 3. 'भ्र दा' ख.