________________ 4 परिच्छेदः / सरखतीकण्ठाभरणम् / 547 र्वेण्याश्च नागेन हस्तिना अहिना च तुल्यत्वम् , वपुष ऊर्वोश्च रम्भया कदल्या अप्सरोभिश्च तुल्यत्वम् , ओष्ठयोः पाण्योश्च प्रवालैर्विद्रुमैनव“पल्लवैश्च तुल्यत्वं वर्णनीययोः श्लेषप्रभावाल्लभ्यते; सोऽयमनेककर्तृकत्वाद्भिन्नकारक इति श्लेषो भवति // गतिरित्यादि / तस्या नायिकाया गतिर्गमनं वेणी केशरचना च नागेन हस्तिना सर्पण च, तस्या वपुरूरुद्वयं च रम्भयाऽप्सरोभेदेन कदल्या च, तस्याः पाणी हस्तावोष्टौ च प्रवालैर्विद्रुमैः पल्लवैश्च सर्वाणि तुल्यत्वमाययुः / 'नागो हस्तिभुजङ्गयोः' इति शाश्वतः / 'कदल्यप्सरसो रम्भा' इति च / 'पल्लवे विद्रुमे चापि प्रवाल:' इति धरणिः / गतिनानात्वादाह-धर्मेति / अत्र नानाकर्तृकत्वादेव भिन्नकारकता // अभिन्नकारको यथा_ 'कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी। याति विश्वसनीयत्वं कस्य ते कलभाषिणि // 231 // ' अत्र 'हे कलभाषिणि, कस्य ते दृष्टिविश्वास्या भवति' इत्युक्तेयुक्तिमाह- कृष्णार्जुनानुरक्तापि कर्णावलम्बिनी' इति च / या हि कृष्णार्जुनेनानुरज्यते कथं सा कर्णपक्षपातिनी भवति, या चैवमुभयगता तस्यां को विश्वसिति; स चायमेककर्तृकत्वादभिन्नकारक इति श्लेषो भवति // - कृष्णेत्यादि / हे कलभाषिणि मधुरषचने, तव दृष्टिः कस्य विश्वसनीयत्वं विश्वासविषयतां याति किंतु न कस्यापि / अत्र हेतुः कृष्णा श्यामा, अर्जुना धवला, अनुरक्ता प्रान्तलोहिता च / प्रादेशिकोऽयं क्रमः / कर्णपर्यन्तगामिनी च / पक्षे कृष्णे हरौ, अर्जुने पार्थे चानुरक्तानुरागवती कर्णपक्षपातिनी च या सा विरुद्धोभयगता कथं विश्वसनीया भवति / 'वलक्षो धवलोऽर्जुनः' इत्यमरः / अत्र कर्तुरेकतयाभिन्नकारकता // इति श्लेषालंकारनिरूपणम् // . भाविकालंकारनिरूपणम् / . भावनालक्षणमाह खाभिप्रायस्य कथनं यदि वाप्यन्यभावना। . अन्यापदेशो वा यस्तु त्रिविधं भाविकं विदुः // 86 // 1. 'तुल्यत्वम्' क. ख. ग.