________________ . . 546 - काव्यमाला। मदमधुराः / मदेन मद्यविकारेण कलध्वनियुक्ताश्च / आसिते उपवेशिते निश्चलीकृतेऽन्तःप्रमोदानुभवादीक्षणे याभिस्तासां मधुरं रवमाकर्णयन्निश्चलाक्षो भवति / पक्षेऽसितेक्षणाः / कीदृश्यः / कोकिलानामिव गिरो यासां ताः / अत्र क्रियाभेदाद्भिनक्रियत्वमितरपदानामभिन्नानामेवार्थद्वयबोधकता // .. अभिन्नक्रियो यथा 'स्वभावमधुराः स्निग्धाः शंसन्त्यो रागमुल्बणम् / - दृशो दूत्यश्च कर्षन्ति कान्ताभिः प्रेषिताः प्रियान् // 229 // ' अत्र 'कर्षन्ति' इत्येतस्यां क्रियायां दृशां दूतीनां च श्लिष्टपदत्वेनावेशादयमभिन्नक्रियो नाम श्लेषविशेषः। प्रथमयोरस्य वा को विशेष इति चेत् / तत्रैकस्यैव प्राकरणिकत्वम् , अत्र तु द्वयोरपीति / अयं च भिन्नकारकोऽपि भवति // स्वभावेत्यादि / कान्ताभिः प्रेषिता दृशो दूत्यश्च प्रियान् वल्लभान् कर्षन्ति / कीदृश्यः / खभावेन सहजेन मधुरा ललिताः / तदुक्तं मत्संगीतसर्वस्वे-'मधुरा कुञ्चितान्ता च सभ्रूक्षेपा च सस्मिता / समन्मथविकारा च दृष्टिः सा ललिता मता // ' इति / स्निग्धाः स्नेहवत्यः / उल्बणमधिकं रागं लौहित्यं शंसन्त्यः / पक्षे सहजमधुराः / यद्वा खभावात्प्रियवादिन्यः स्निग्धा आत्मीयाः / अधिकं रागं मद्यविकारकृतं शंसन्त्यः / यद्वा रागमनुरागं कथयन्त्यः / अत्र प्रियाकर्षणरूपैकैव क्रिया साधारणीत्येकक्रियात्वम् / भिन्नपदाभिन्नपदाभ्यामस्य च को भेद इति पृच्छति-प्रथमयोरिति / वाशब्दश्चार्थे / उत्तरम्-तत्रेति / तयोरेकैकस्यैव प्रकरणापन्नत्वमत्र तु दृष्टं द्वयोरपि प्राकरणिकत्वमिति भेद इत्यर्थः / अनेककर्तृकत्वेनायं भिन्नकारकोदाहरणमपीत्याह-अयमिति // भिन्नकारको यथा'गतिर्वेणी च नागेन वपुरूरू च रम्भया / ओष्ठौ पाणी प्रवालैश्च तस्यास्तुल्यत्वमाययुः // 23 // अत्रैकस्मिन् पक्षे धर्मधर्मिणोरभेदोपचारान्नागगतिर्गृह्यते / तत्र गते. 1. 'अभिन्नक्रिययोः' ग.