________________ 545 4 परिच्छेदः। सरखतीकण्ठाभरणम् / सोऽवश्यं लोकस्य हृदयहारी भवति / अत्रापि च प्राकरणिकेऽर्थेऽप्राकरणिक उपश्लिष्यमाणः पदानामभेदेनाभिन्नपदश्लेषो भवति // अंसावित्यादि / असौ राजा नृपो मृदुभिरपीडाकरैः करै राजग्रार्लोिकस्य हृदयं हरति / कीदृशः / उदयं वृद्धिमारूढः प्राप्तः / कान्तिमान् शोभायुक्तः / रक्तमनुरक्तं मण्डलं देशो यस्य सः / पक्षे असौ राजा चन्द्रः करैः किरणैर्मृदुभिः शीतलैर्जनस्य हृदयं हरति गृह्णाति / कीदृशः / उदयमुदयादिमुपगतः / कान्तिमान दीप्तियुक्तो रक्तमण्डलो लोहितबिम्बश्च / 'उदयो वृद्धावुदयपर्वते' इति विश्वः / 'मण्डलं बिम्बदेशयोः' इति च / अत्र राजादिपदानामभेदेनाभिन्नपदश्लेषत्वम् // भिन्नक्रियो यथा‘मधुरा रागवर्धिन्यः कोमलाः कोकिलागिरः / आकर्ण्यन्ते मदकलाः श्लिष्यन्ते चासितेक्षणाः // 228 // अत्र ‘आकर्ण्यन्ते, श्लिष्यन्ते च' इति क्रियापदद्वितयस्य प्राधान्यतः समुच्चयेनोपात्तस्य 'मधुरा-' इत्यादिभिः श्लिष्टपदैः 'कोकिलागिरः', 'असितेक्षणाः' इति वा विशेष्यैकपदवर्ज पर्यायतः संबन्धो भवति / तद्यथा-आकर्ण्यन्ते / काः / कोकिलागिरः / कीदृश्यः / मधुराः, रागवर्धिन्यः, कोमलाः / पुनरपि किंभूताः / आसिते उपवेशिते निश्चलीकृते अन्तःप्रमोदानुभावादीक्षणे याभिस्तास्तथा / सर्वोऽपि हि मधुरं शब्दमाकर्णयन् निश्चलाक्षो भवति / श्लिष्यन्ते च / काः / असितेक्षणाः हरिणचक्षुषः / किंभूताः / मदकलाः, कोकिलागिरः, कोमलाः, रागवर्धिन्यः, मधुरा इति / सोऽयं द्वयोविभिन्नक्रिययोर्भिनार्थे च रूपिणां पदार्थानामुपश्लेषो भिन्नक्रियः श्लेष उच्यते // मधुरा इत्यादि / कोकिलागिर आकर्ण्यन्ते, असितेक्षणाः श्यामनेत्राः प्रियानाश्लिष्यन्ते च। कीदृश्यः / मधुराः श्रुतिसुखा रम्याश्च / रागवर्धिन्योऽनुरागजनिका रतिजनिकाश्च / कोमला मनोज्ञा मृद्वयश्च / मदकला यौवनवसन्तादिकृत१. 'भिन्नार्थकरूपाणाम्' ख. 35 स० क.