________________ 544 - काव्यमाला। तेषु मिन्नपदो यथा 'दोषाकरेण संबन्नन्नक्षत्रपथवर्तिना / राज्ञा प्रदोषो मामित्थमप्रियं किं न बाधते // 226 // अत्र 'प्रदोषो रात्रेः प्रथमयामः किमिति प्रियारहितं मां न बाघते' इत्युक्तेर्युक्तिमाह-इत्थमनुभूयमानेन प्रकारेण / राज्ञा संबध्नन् / कीदृशेन / दोषाकरेण नक्षत्रपथवर्तिनेति / यो हि दोषाणामाकरेण राजमार्गातिगामिना च राज्ञा प्रकृष्टदोषः संबध्यते सोऽप्रियमवश्यं बाधत एव; तदन पूर्वस्मिन्प्राकरणिकेऽर्थे द्वितीयोऽर्थोऽप्राकरणिकः पदभेदेनोपश्लिष्यमाणो भिन्नपदश्लेषापदेशमासादयति // " दोषेत्यादि / प्रकृष्टो दोषो दूषणं यस्य स दुर्जनों मां किं न बाधते, किंतु बाधत एव / मां कीदृशम् / अप्रियं तस्य द्वेष्यम् / कीदृशः / इत्थमनुभूयमानेन प्रकारेण राज्ञा भूपेन सह संबनन् युजन् / आत्मानमित्यध्याहार्यम् / अत्र कर्मवद्भावो न कृतः संबध्यमान इत्यर्थत्वात् / राज्ञा कीदृशेन / दोषाणां दूषणानामाकरण स्थानेन / क्षत्रपथः क्षत्रियमार्गस्तत्र वर्तितुं शीलं यस्य तेन / पश्चान्नकारसंबन्धः / क्षत्रियधर्मशून्येनेत्यर्थः / पक्षे प्रदोषो रजनीमुखं मामप्रियं प्रियारहितं किं न बाधते किंतु बाधत एव / कीदृशः / राज्ञा चन्द्रेणेत्थं संबध्यमानः / कीदृशेन / दोषाकरेण रात्रिकरेण / नक्षत्रपथं व्योम तदवस्थितिशीलेन च / अत्र राजपदमभिन्नम् / शेषपदानां भेदाद्भिन्नपदश्लेषः // अभिन्नपदो यथा- .. 'असावुदयमारूढः कान्तिमान् रक्तमण्डलः / राजा हरति लोकस्य हृदयं मृदुभिः करैः // 227 // अत्रायमुदीयमानश्चन्द्रमा लोकस्य हृदयं हरतीत्युक्तेर्युक्तिमाहराजानुरक्तमण्डल उदयी मृदुकरः कान्तिमानिति / यो ह्येवंभूतो राजा 1. 'राजमार्गाभिगामिना' घ. 2. 'सोऽपि प्रियम्' ग. 3. 'सर्वस्य' ग.