________________ 4 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 543 विमलितं निर्मलीकृतं वा रसातलं येन तेन / पुनः कीदृशम् / हरिणा त्रिविक्रमेणाप्यप्राप्ततुङ्गशिखरम् / कीदृशेन / त्रिभुवनहरणाय सर्वतो भावाद्वर्धितेन वृद्धिं गतेन / मृद्गता मर्दयता / अत्र पर्वतानुभावातिशयविवक्षयातिशयः स च तैरनुभूयमान एव // / 'रणदुजओ दहमुहो सुरा अवज्झा अतिहुअणस्स इमे / पडइ अणत्थोत्ति फुडं विहीसणेन फुडिआहरं णीससिअम् 225 . रणदुर्जयो दशमुखः सुरा अवध्याश्च त्रिभुवनस्येमे / ... पतत्यनर्थ इति स्फुटं विभीषणेन स्फुटिताधरं निश्वसितम् // .. - अत्र दशास्यः समरे न जीयते, सुराश्चामरत्वान्न वध्यन्ते, तयोश्च परस्परं संघट्टक्रियातिशयात्रिभुवनमपि क्षयं यास्यतीति येयमन्योन्यक्रियातिशयभणनाल्लोकसीमातिक्रमेण विशेषविवक्षा सोऽयं क्रियातिशयो नामातिशय एवान्योन्यातिशय उच्यते // - रणेत्यादि / “रणदुर्जयो दशमुखः सुरा अवध्या अहो त्रिभुवनस्यासौ / पतत्यनर्थ इति स्फुटं विभीषणेन स्फुटिताधरं निश्वसितम् // " इह स्फुटिताधरं व्यक्तीकृताधरं यथा स्यादेवं विभीषणेन रावणभ्रात्रा निश्वसितं निश्वासस्त्यक्तः स्फुट व्यक्तमेव / कुतः। दशास्यो रणे दुर्जयः, सुरा देवा अमरत्वादवध्याः। अहो आश्चर्यमसौ त्रिभुवनस्यानर्थः पततीति / इतितौ। अत्र दशास्यसुरयोरन्योन्यक्रियातिशयोक्तेरन्योन्यातिशयः / सकलभुवनक्षयकारितया लोकसीमातिपातः // इत्य. तिशयोक्त्यलंकारनिरूपणम् // श्लेषालंकारनिरूपणम् / श्लेषं लक्षयति श्लेषोऽनेकार्थकथनं पदेनैकेन कथ्यते / .. . पदक्रियाकारकैः स्याद्भिन्नाभिन्नैः स षड्विधः // 85 // श्लेष इति / एकेन पदेन विभक्त्यन्तेनानेकेषामर्थानां कथनं यत्र स श्लेषः कथ्यते / एकरूपान्वितमनेकार्थ वचः श्लेष इति लक्षणम् / स च षड्विधः पदादिभिः स्यात् //