________________ 542 काव्यमाला। [तद्दयिताभिज्ञानं यस्मिन्नप्यङ्गे राघवेण न न्यस्तम् / सीतापरिमृष्टेनेवोस्तेनापि निरन्तरं रोमाञ्चः // ] . - अत्र दयिताभिज्ञानस्य योऽयं रोमाञ्चक्रियाविशेषः स क्रियातिशयस्यैव भेदः प्रभावातिशय उच्यते // तमित्यादि / 'तद्दयिताभिज्ञानं यस्मिन्नप्यङ्गे राघवेण न निर्मितम् / सीता परिस्पृष्टेनेव व्यूढस्तेनापि निरन्तरं रोमाञ्चः // " इह तद्दयिताया वल्लभायाः सीताया अभिज्ञानं चिह्न मणिरूपं यस्मिन्नप्यङ्गे रामेण न निर्मितं न निहितं तेनाप्यङ्गेन सीतया परि सर्वतोभावेन स्पृष्टेनेव निरन्तरं यथा भवत्येवं रोमाञ्चो व्यूढो धृतः। 'अभिज्ञानं भवेच्चिह्न' इति शाश्वतः / अत्र रोमाञ्चहेतुक्रियातिशयेन प्रभावातिशय एव विवक्षितः // . अनुभावातिशयो यथा'विमलिअरसाअलेण वि विसहरवइणा अदिट्ठमूलच्छेअम् / अप्पत्ततुङ्गसिहरं तिहुअणहरणे पवढिएणे वि हरिणा // 224 // [विमर्दितरसातलेनापि विषधरपतिनादृष्टमूलच्छेदम् / अप्राप्ततुङ्गशिखरं त्रिभुवनहरणे प्रेवर्धितेनापि हरिणा // ] . अत्र रसातलमपि मृद्गता शेषेणापि च तस्य मूलं न दृष्टम् , त्रिभुवनमप्युल्लङ्घयता हरिणापि न तुङ्गशिखराणि प्राप्तानीति यदेतल्लोकसीमातिक्रमेण विशेषव्यवस्थया पर्वतानुभावभणनं सोऽयमनुभूयमानमाहात्म्यातिशयस्यैव भेदोऽनुभावातिशय उच्यते // - विमलिअ इत्यादि / “विमर्दितरसातलेनापि विषधरपतिनादृष्टमूलच्छेदम् / अप्राप्ततुङ्गशिखरं त्रिभुवनहरणप्रवर्धितेनापि हरिणा // " इह सुवेलं कीदृशम् / विषपरपतिना शेषेणादृष्टो मूलस्य छेदः शेषो यस्य तम् / कीदृशेन / विमर्दितं 1. सेतुबन्धे' तु 'बूढो' इति पाठः, 'व्यूढः' (विशेषेणोढः ) इति छाया च. 2. सेतुबन्धे 'तिहुअणहरणपरिवहिएण' इति पाठभेदः 'त्रिभुवनहरणपरिवर्धितेन' इति छायाभेदश्च. ..... ......................