________________ 541 1 परिच्छेदः / सरखतीकण्ठाभरणम् / स्तनयोरित्यादि / हे प्रिये, तव स्तनयोर्जघनस्यापि मध्येऽन्तराले मध्यमवलममतिकृशत्वादस्ति नास्तीति संदेहो ममाद्यापि न निवर्तते / अत्र तानवस्य तनुत्वस्यातिशयः / लोकेति / नहि लोकः पयोधरभरस्थित्यन्यथानुपपत्त्यापि मध्यं निश्चिनोतीत्यर्थः // कान्त्यतिशयो यथा'मल्लिकामालभारिण्यः सर्वाङ्गीणाचन्दनाः / / क्षौमवत्यो न लक्ष्यन्ते ज्योत्सायामभिसारिकाः // 222 // अत्रैवं चन्द्रालोकस्य लोकसीमातिक्रमेण बाहुल्योत्कर्षविवक्षा / येन तस्मिन् समानाभिहारेणाभिसारिका अपि न लक्ष्यन्ते सोऽयं कान्त्यतिशयो नामातिशयभेदः // अथास्य पिहितात्को विशेषः / उच्यते / पिहिते चन्द्रातपस्योत्कर्षेणाभिसारिकातिरस्कारो विवक्ष्यते, इह त्वभिसारिकातिरस्कारेण चन्द्रातपोत्कर्ष इति // मल्लिकेत्यादि / ईदृश्योऽभिसारिका ज्योत्स्नायां चन्द्रकिरणेऽपि न लक्ष्यन्ते न ज्ञायन्ते केनापि / कीदृश्यः / मल्लिका मालती तस्या मालां बिभ्रति / 'मालेषीकाष्टकानां भारतूलहि(चि)तेषु' इति हखः / सर्वाङ्गीणं सर्वाङ्गव्यापकमा, चन्दनं यासां ताः / क्षौमवत्यो दुकूलयुक्ताश्च / क्षोम इति 'टुक्षु शब्दे' इति मनिन् / क्षुमा प्रज्ञादित्वात् खार्थेऽण् वृद्धिश्च / अत एव 'चमवत्' इत्यपि पाठः / अत्र चन्द्रकान्तेरतिशयः स्फुट एव / 'अभिहारोऽभियोगः स्यात्' इति मेदिनीकारः / लोकसीमातिक्रमश्च नहि शुक्लाम्बरतया ज्योत्स्नायामभिसारिका न लक्ष्यन्त इति लोकसीमेत्यर्थः / उत्कर्षरूपस्यार्थस्योभयत्र विवक्षणात् पिहितकान्यतिशययोरभेदः / किमिति पृच्छति-अथेति / उत्तरम् / पिहित इति / चन्द्रातपोत्कर्षतया तौल्येऽपि पिहिते तेनाभिसारिकातिरस्कार इह तु तस्यास्तिरस्कारेण चन्द्रातपोत्कर्ष इति प्रकाराभ्यां तयोर्भेद इत्याशयः॥ प्रभावातिशयो यथा'तं दइआहिणाणं जम्मि वि अङ्गम्मि राहवेण ण णिमिअम् / सीआपरिमट्टेण व ऊढो तेण वि णिरन्तरं रोमञ्चो // 223 // 1. 'इष्टकेषीकामालानां चिततूलभारिषु 6 / 3 / 65' इति भाव्यम्. 2. 'मिण्णाणं' ग.