________________ 4 परिच्छेदः।] सरस्वतीकण्ठाभरणम् / 537 विश्वं स्रक्ष्यति वक्ष्यति क्षितिमपामीशिष्यतेऽशिष्यते नागै रागिषु रस्यतेऽत्स्यति जगन्निर्वेक्ष्यति द्यामिति / / 216 // ' ___ अत्रानयोक्तिभङ्गया ब्रह्माद्यस्तमयेऽप्यनस्तमितस्य भगवतो महेश्वरस्य प्रभावो वर्ण्यते, तत्र च 'यदीयां लिपि कापि वापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षराम्' इत्यनेनैव वाक्येऽस्मिन्नाकाकोत्थाप्यते / सा च 'विश्वं स्रक्ष्यति' इत्यस्मिन्नीशी-ब्रह्मणां चतुर्युगसहस्रान्ते दिनमेकमिति मानेनैष वर्षशतजीवी विश्वं स्रक्ष्यति ब्रह्मेति ज्ञाप्यते, कपालं चास्य भगवतो भूषणं भविष्यति / 'वक्ष्यति क्षितिम्' इत्यस्मिनीदृशी-ब्रह्मणामयं (2) वर्षशतेनैकं दिनमिति मानेनैष पुरुषायुषजीवी क्षितिं वक्ष्यति विष्णुरिति ज्ञाप्यते, कपालं चास्य भगवतो भूषा भविष्यतीति / एवम् 'अपामीशिष्यते-' इत्यादिषु वरुणकामयमेन्द्रविषयत्वेन योजनीयम् / सेयमनेकप्रकारेण ब्रह्मादीनां साक्षादनभिधानेन साकाङ्क्षोक्तिभङ्गिः // शान्त्या इत्यादि / जगतां पत्युर्हरस्य कपालदाम ललाटमाला वो युष्माकं शान्य शमायास्तु / पञ्चवक्रतया कपालानां माला / यदीयां लिपि यत्संबन्धिनीमक्षराली गणा नन्द्यादयः क्वापि पदशः पदक्रमेण पठन्ति वाचयन्ति / कीदृशीम् / नातिप्रसिद्धवर्णाम् / अत एव क्वाचित्कः पाठः / पाठविषयमाह-अयं शिवो विश्वं जगत् स्रक्ष्यति निर्मास्यति / क्षितिं भूमिं वक्ष्यति धारयिष्यति / अपामीशिष्यते जलेष्वैश्वर्य लप्स्यते / नागैः सरैरशिष्यते भोक्ष्यते / अयं रागिषु विषयासक्तेषु रस्यते क्रीडिष्यति / जगदयमत्स्यसि भक्षिष्यति / द्यां वर्ग निर्वेक्ष्यत्युपभोक्ष्यति। इति / स्रक्ष्यतीति 'सृज विसर्गे' लटू / “सृजिशोझल्यमकिति * 1. 'शिष्यते' ग. 2. 'ब्रह्मणश्च' इति युक्तं प्रतिभाति / 'चतुर्युगसहस्रान्ते ब्रह्मणो दिनमुच्यते' इत्यत्र प्रमाणम्, 3. 'भविष्यतीति' क. ख. 4. 'ब्रह्मणामेवं वर्षशतेन' इति भवेत् / यत्र माझे वर्षे मानुषचतुर्युगसहस्त्रात्मकमेकं दिनमित्यर्थः