________________ 536 .काव्यमाला। अत्र 'कयाचिदेवं मिषतो विनिर्यये' इतिवदुदर्कानभिधानात् साकाङ्कमेतन्मिषं नाम पर्यायस्य भेदः // दशतीत्यादि / असौ परभृतः पिकः सहकारस्य मञ्जरी दशति तमहं वारयिष्यामि / ततो युवाभ्यां खैरं स्वच्छन्दमास्यतामुपविश्यताम् / 'स्वच्छन्दमन्दयोः खैरम्' इति विश्वः / अत्रोदर्कानभिधानात्साकाङ्क्षत्वम् // निराकाङ्क्षोक्तिभङ्गिर्यथा'राजन् राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः कुब्जे भोजय मां कुमार कुशलं नाद्याज्जुके भुज्यते / इत्थं नाथ शुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरा चित्रस्थानवलोक्य वेश्मवेलभीष्वेकैकमाभाषते // 215 // अत्रानयोक्तिभङ्ग्या शून्यीकृतारिनगरस्य नरपतेः कश्चित् प्रतापं वर्णयति / तत्र वाक्यस्य परिपूर्णत्वेन निराकात्वान्निराकानेयमुक्तिभङ्गिः // राजनित्यादि / हे नाथ हे प्रभो, तवारिभवने शत्रुगृहे इत्थमनेनाकारेण वेश्मवलभीषु गृहोपरिकुटीषु चित्रलिखितानेतान्विलोक्य प्रत्येकं शुक आभाषते वदति / कीदृशः / अध्वगैः पथिकैः पञ्जरान्मुक्तस्त्यक्तः / आभाषणखरूपमाह-हे राजन् , राजसुता कुमारिका मां न पाठयति / देव्यो महादेव्योऽपि तूष्णीं स्थिताः कृतमौनाः / हे कुब्जे, मां भोजय / हे कुमार राजबालक, तव कुशलम् / हे अजुके गणिके, अद्य मया न भुज्यते / 'देवी कृताभिषेकायाम्' इत्यमरः / बाहुल्येन कुब्जायाः शुकभोजनं नृपगृहे कर्म / 'युवराजस्तु कुमारः' इत्यमरः / 'नाट्योक्ती गणिकाजुका' इति च / अत्र प्रतापवर्णने पूर्णवाक्यतया निराकाङ्क्षत्वम् / उक्तौ तु भनिय॑क्लेव // साकाङ्क्षा यथा'शान्त्यै वोऽस्तु कपालदाम जगतां पत्युर्यदीयां लिपि क्वापि कापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षराम् / 1. 'गम्यते' ग. 2. 'सन्धिवै चापि किं भुज्यते' इति, 'शून्यवलभावकैकमाभापते' इति च काव्यप्रकाशेऽप्रस्तुतप्रशंसापामुदाइतेऽस्मिन्नेव कोके पाठभेदः.