________________ 4 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 535 आ समन्तात् प्रश्नः संवादः / यथा आपृच्छखेत्यत्र / वर्तसेन कर्णालंकारेण विपुलः स्थूलश्चांसो बाहुमूलं यत्र वक्षसि तत् / ‘वतंसः कर्णपूरे स्यात्' इति विश्वः। अत्रादरवता वचनरचनेनाभ्यर्च्य प्रार्थनाभङ्गिरर्थपरिपाटीकृता / तस्यां च गङ्गया हारस्य, यमुनयासिलतायाः, प्रयागेण वतंसविपुलस्थूलांसवक्षसः, न्यग्रोधेन भुजस्य शाब्देन क्रमेण मिथ उपमानोपमेयभावो न्यग्भूत इत्युभयक्रमेऽर्थप्रधानता // इति क्रमालंकारनिरूपणम् // ___ पर्यायालंकारनिरूपणम् / पर्यायं लक्षयति मिषं यदुक्तिभगिर्यावसरो यः स सूरिभिः / निराकासोऽथ साकाङ्क्षः पर्याय इति गीयते // 8 // मिषमिति / यन्मिषम् , योक्तिभङ्गिः, यश्चावसरः स पर्यायः / मिषाद्यन्यतम एव पर्याय इति लक्षणम् // . तेषु निराकाझं मियं यथा‘मया विमुक्ता बहिरेव वल्लकी व्रजेदवश्यायकणैश्च साताम् / द्रुतं तदेनां करवै निचोलके कयाचिदेवं मिषतो विनिर्यये 2135 अत्र 'कयाचिदेवं मिषतो विनिर्यये' इत्युदर्काभिधानेनाकाङ्क्षानिवृत्तेर्निराकासमेतन्मिषं नाम पर्यायभेदः // : मयेत्यादि / कयाचिन्नायिकया एवमनेन प्रकारेण मिषतो व्याजाद्विनिर्यये बहिर्भूतम् / तदेवाह-मया त्यक्ता वल्लकी वीणा बहिरेव गच्छेत् / अवश्यायकहिंमलवैः सार्द्रतां च व्रजेत् / तत एनां शीघ्रं निचोलके वस्त्रेऽहं करवै करिष्यामि। 'अवश्यायस्तु नीहारः' इत्यमरः। 'निचोलः प्रच्छदपटः' इति च / उदर्क उत्तरकालशुद्धिस्तदभिधानं मिषपर्यायः॥ तदेव साकाझं यथा... 'दशत्यसौ परभृतः सहकारस्य मञ्जरीम् / ..... तमहं वारयिष्यामि युवाभ्यां खैरमास्यताम् // 214 // 1. 'निराकृतेनिराकाह' क. 'निराकृतेति' ख. :