________________ 534 काव्यमाला। कायां हस्तनेत्राधरमुखैर्निजसृष्टिरप्युत्सृष्टेव दत्तेव / पङ्कजादीनामपासनात् / तदेवाह-पङ्कजानि पद्मे कर्दमे न्यस्तानि / नीलाब्जानि ह्रदेऽगाधजले क्षिप्तानि / वृत्तौ वेष्टने बिम्बफलं न्यस्तम् , चन्द्रो गगने क्षिप्त इति / 'स्रष्टा प्रजापतिर्वेधाः' इत्यमरः / अत्र पङ्कजादीनां करादिना जये शाब्दक्रमः प्रधानीभूतोऽधिकरणानामुपर्युपरिभावः, क्रियाणां च त्यागतारतम्यमित्यार्थक्रमश्च न्यग्भूतोऽप्रधान इत्युभयक्रमेऽपि शब्दप्रधानता // अर्थप्रधाना यथा'गङ्गे देवि दृशा पुनीहि यमुने मातः पुनदर्शनं संप्रश्नोऽस्तु पितः प्रयाग भगवन्न्यग्रोध मां ध्यास्यसि / तं हारासिलतावतंसविपुलस्थूलांसवक्षोभुजं. ___पुंभावं भवतामवन्तिनगरीनाथं दिदृक्षामहे // 212 // अत्र गङ्गायमुनाप्रयागन्यग्रोधतत्पुभावावन्तिनगरीनाथलक्षणानामर्थानां मुख्यक्रमेण 'देवि दृशा पुनीहि', 'मातः पुनर्दर्शनम्', 'पितः संप्रश्नः', 'भगवन्मां ध्यास्यसि' इति मुख्यक्रमेणैव संभ्रमद्भिर्वचोविशेषैरभ्यर्थ्य 'भवतामेव पुंभावमवन्तिनगरीनाथं दिदृक्षामहे' इति येयमभ्यर्थनाभङ्गिः सार्थपरिपाटीकृता तस्यां च 'गङ्गे, यमुने, प्रयाग, न्यग्रोध' इति, 'हारासिलतावतंसविपुलवक्षःस्थूलांस' इति च शब्दपरिपाटी परस्परमुपमानोपमेयभूते न्यग्भवतः, सेयमर्थप्रधानोभयपरिपाटी क्रमः // .. गणेत्यादि / हे गङ्गे देवि, दृशा मां पुनीहि, हे मातर्यमुने, पुनर्दर्शनमस्तु, हे पितः प्रयाग, भवान् खाप्रश्नोऽस्तु सुसंवादोऽस्तु / हे भगवन्, न्यग्रोध अक्षयवट, मां ध्यास्यसि स्मरिष्यसि / तमवन्तिनगरीनाथमुज्जयिनीपतिं भोजराजं नृपं वयं दिदृक्षामहे द्रष्टुमिच्छामः। कीदृशम् / हारखगलताकर्णालंकारौर्वपुलाः पीनबाहमूलयुक्तवक्षोभुजा यस्य तम् / भवतामेव भावं पुरुषरूपम् / खाप्रश्न इति / खस्य 1. 'अभ्यर्चा' क.