________________ काव्यमाला। 6 / 1 / 58' इत्यम् / वक्ष्यतीति 'वह प्रापणे' लद। 'षढोः कः सि 8241' इति कत्वम् / ईशिष्यत इति 'ईश ऐश्वर्ये' लट् / अशिष्यत इति. 'अश भोजने" लटि कर्मणि / रंस्यत इति 'रमु क्रीडायाम्' लट् / अत्स्यतीति 'अद भक्षणे'' लट् / निर्वेक्ष्यतीति निपूर्वात् विशेर्लट् / अस्तसमये विनाशे / ब्रह्मणा करणेनेदृशी आकाहा / चतुर्णा युगानामेकसहस्रेण ब्रह्मण एकं दिनम् / अनेनैव क्रमेणाहोरात्रादिकम् / ईदृश्याकाङ्क्षा / शतसंख्यब्रह्मापवर्गानन्तरमेकं दिनं वैष्णवम् / अनेनैव क्रमेणाहोरात्रादिकम् / पुरुषायुषेति अचतुरादौ निपातितम् / अपामीशिष्यत इति वरुणादयो ज्ञेयाः / अत्र ब्रह्मादीनां साक्षादभिधानाभावात् साकाङ्क्षता // अवसरो निराकाङ्को यथा ‘अथ तैः परिदेविताक्षरैहृदये दिग्धशरैरिबार्दितः / --. रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत्पुरः // 217 // ' .. अथेत्यादि / अनन्तरं मधुर्वसन्तोऽग्रे आत्मानमदर्शयत् दर्शितवान् / किं कर्तुम् / आतुरां विह्वलां रतिं कामवधूमभ्युपपत्तुं बोधयितुम् / कीदृशः / तैः परिदेविताक्षरैर्विलापाक्षरैदिग्धशरैर्विषाक्तशरैरिवादितः पीडितः / 'विलापः परिदेवनम्' इत्यमरः। 'दिग्धो विषाक्तबाणे स्यात्पुंसि लिप्तेऽन्यलिङ्गकः' इति मेदिनीकारः / नानार्थत्वादेव, नियमार्थ शरपदमिह / अत्र वसन्ताविर्भावप्रस्तावो निरपेक्ष एवेति निराकासत्वम् // - अत्र , 'क नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः / . न खल्गरुषा पिनाकिना गमितः सोऽपि सुहृद्गतां गतिम् // 218 // इति यानि रतेः परिदेविताक्षराणि तैराकृष्टहृदयस्य मधोर्योऽयमात्मदर्शनाय प्रस्तावः सोऽयं न किंचनाकाङ्क्षतीति निराकाङ्क्षोऽयमवसरः पर्यायस्य भेदः / / माहितः इति कुमारसंभुक्टीकायां मल्लिनाथधृतः पाठः.