________________ 4 परिच्छेदः।] सरस्वतीकण्ठाभरणम् / 531 शब्दस्येति / शब्दार्थयोः परिपाट्या भणनं क्रमः / शब्दतदर्थतदुभयभेदात्स विधेति विभागः॥ .. * तत्र शब्दपरिपाटी द्विधा-पदतो वाक्यतश्च / तयोराद्या यथा 'तस्याः प्रवृद्धलीलाभिरालापस्मितदृष्टिभिः / जीयन्ते वल्लकीकुन्दस्रगिन्दीवरसंपदः // 207 // ' ... अत्रालापस्मितदृष्टिमिः पदार्थैवल्लकीकुन्दसगिन्दीवरसंपदः पदार्था जीयन्त इति शब्दपरिपाट्या भणनम् ; सेयं पदतः शब्दपरिपाटी क्रमः // / तस्या इत्यादि / तस्या. आलापस्मितदृष्टिभिर्वचनेषद्धासालोकनैवल्लकीकुन्दस्रगिन्दीवरसंपदो वीणाकुन्दमालानीलाजसंपत्तयो जीयन्ते / कीदृशीभिः / उपचितविलासाभिः। अत्र शब्दस्य पदरूपस्य परिपाट्या भणनमिति पदघटितः शाब्दक्रमः॥ वाक्यतो यथा- . . .. ... 'इन्दुर्मूर्ध्नि शिवस्य शैलदुहितुर्वक्रो नखाङ्कः स्तने ........ देयाद्वोऽभ्युदयं द्वयं तदुपमामालम्बमानं मिथः / / / संवादः प्रणवेन यस्य दलेता कार्यकतायां तयो रूद्वारि विचिन्तितेन च हृदि ध्यातखरूपेण च 208' - अत्र 'इन्दुमूर्ध्नि शिवस्य', 'शैलदुहितुर्वक्रो नखाङ्कः स्तने' इति वाच्यार्थवाचिनौ शब्दसमुदायौ क्रमेण 'ऊर्ध्वद्वारि विचिन्तितेन च', 'हृदि ध्यातवरूपेण च' इति वाक्यार्थद्वयंवाचिभ्यां शब्दसमुदायाभ्यां संबध्येते; सेयं वाक्यतः शब्दपरिपाटी क्रमः // ... ... ... .. इन्दुरित्यादि / विवृतोऽयं संमितत्वगुणे / अत्र वाक्यार्थाभिधायकौं शब्दसमुदायौ तादृशाभ्यां शब्दसमुदायाभ्यां संबद्धाविति वाक्यघटितः शाब्दक्रमः // -- 1. 'वल्लक्यादयः पदार्थाः' घ. 2. 'लसता' ख. 3-3. 'ऊर्ध्वद्वारविचिन्तितेन' ख. ग. 4-4. 'हृदि ध्यातः. स्वरूपेण च' क. ग. 5. 'चान्यार्थवाचिनौ' क. ख.