________________ 532 काव्यमाला। अर्थपरिपाटी द्विधा-कालतो देशतश्च / तयोराद्या यथा_ 'हस्ते लीलाकमलमलकं बालकुन्दानुविद्धं नीता लोध्रप्रसवरजसा पाण्डुतामाननश्रीः / चूडापाशे नवकुरबकं चारु कर्णे शिरीष ___ सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् // 209 // ' अत्र 'हस्ते लीलाकमलमलकं बालकुन्दानुविद्धम्' इत्याद्यर्थानां शरदादिकालक्रमेण भणनम् ; सेयं कालतोऽर्थपरिपाटी क्रमः // . हस्ते इत्यादि / यत्र पुर्यां वधूनां हस्ते लीलाकमलम् , अलकं चूर्णकुन्तलं बालकुन्देनानुविद्धं संबद्धम् / लोध्रप्रसवस्य लोध्रपुष्पस्य रजसा धूल्या मुखश्रीः पाण्डुतां श्वेतता नीता / चूडापाशे प्रशस्तशिखायां नूतनकुरबकपुष्पम् , चारु मनोज्ञं शिरीषपुष्पं कर्णे, सीमन्ते नीपं कदम्बपुष्पम् / त्वदुपगमस्त्वदीयागमनं तस्माजातम् / इदं सर्वपुष्पविशेषणम् / 'चूडा शिखायां बाहुभूषणे' इति मेदिनीकारः / शिखापरस्यापि पाशपदस्य केशपरत्वमेव / अत्र शरदादिकालक्रमेणार्थानां क्रमादार्थक्रमः॥ द्वितीया यथा___ 'पायाद्वो रचितत्रिविक्रमतनुर्देवः स दैत्यान्तको यस्याकस्मिकवर्धमानवपुषस्तिग्मधुतेर्मण्डलम् / मौलौ रत्नरुचि श्रुतौ परिलसत्ताटङ्ककान्ति क्रमा जाँतं वक्षसि कौस्तुभाभमुदरे नाभीसरोजोपमम् // 210 // ' अत्र त्रिविक्रमतनोबैकुण्ठस्य प्रवृद्धिसमये क्रमेणैव मौलिश्रुतिवक्षउदरलक्षणेषु शरीरदेशेषु भाखन्मण्डलस्य चूडारत्नताटङ्ककौस्तुभनाभ्यम्बुजैर्योऽयमौपम्यलाभः; सेयं देशतोऽर्थपरिपाटी क्रमः // . 1. रनरुचिः' ग. घ. 2. 'तालङ्ककान्तिः ' ग. घ. 3. 'यातं' ग. घ. 4. 'सेयमौपम्यलाभो ग. प.