________________ 530 काव्यमाला / इह तु खतन्त्रं मालापुष्पवत् पदं पदेन युज्यमानं क्रियादिभिः संबध्यत इति ततो भिद्यते // ..... __ इमिणेत्यादि / “अनया शरदा शशी शशिनापि निशा निशया कुमुदवनम् / कुमुदवनेन च पुलिनं पुलिनेन च शोभते हंसकुलम् // " इह सर्वत्र शोभत इति क्रियान्वयः / अत्रान्योन्यग्रथनया मालाक्रमस्तेन च प्रधानक्रियायां दीपनम् / परस्परग्रथनया रसनामालयोंर्भेदं पृच्छति-क इति / उत्तरम् / पूर्वत्रेति / रसनायां सर्वत्र वृत्त्या छन्दसा छिन्न भिन्नीभूतं पदं पदेन युज्यते / मालायां तु प्रत्येकमेव पदं पदेन युज्यत इत्यनयोर्भेद इत्यर्थः // चक्रवालं यथा- . 'संग्रामाङ्गणमागतेन भवतां चापे समारोपिते . देवाकर्णय येन येन सहसा यद्यत्समासादितम् / ' कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं - तेन त्वं भवता च कीर्तिरतुला की, च लोकत्रयम् // 206 // ' अत्र 'संग्रामाङ्गणमागतेन भवता चापे समारोपिते' इति भावलक्षणाक्षिप्तस्य भावविशेषस्य द्वितीयपादे कारकवीप्सया यत् संक्षेपेणाभिधानं तदेतच्चक्रवालाद्रिणेव मालादीपकेन विस्तारवता वेष्टितमिदं चक्रवालं नाम दीपकस्य भेदः // संग्रामेत्यादि / विवृतोऽयं विस्तारगुणे / अत्र भावः क्रिया / सा च सामान्यलक्षणेन ज्ञाता विशेषमाक्षिपति / ज्ञानसामान्यस्य विशेषे जिज्ञासोदयात् तत्र च समारोपणरूपे कारकजिज्ञासायां सामान्यत एव वीप्सयाभिधानं येनेति यदिति च / विस्तरवत्त्वेन चक्रवालादिसाम्यमस्य // इति दीपकालंकारनिरूपणम् // - क्रमालंकारनिरूपणम् / / कमलक्षणमाह- . .......... .... शब्दस्य यदि वार्थस्य द्वयोरप्यनयोरथ / भणनं परिपाट्या यत् क्रमः स परिकीर्तितः // 79 // : 1. 'ततोऽयं भिद्यते' क. ख. . 2. 'देवालोकय' क. पुस्तके. 3. 'सप्ताब्धयः' इत्यपि पाठः घ.