________________ 4 परिच्छेदः / सरखतीकण्ठाभरणम् / 'लोले चलने' तौदादिकः। यद्वा लोलतीति क्विबन्तात्तिए। अत्र पदद्वयं द्रष्यवाचकं संपुटक्रमेण मिथः संबध्यमानं मिथः संबद्धान्येव पदानि दीपयतीति संपुटम् // . 'रसना यथा'सलिलं विकाशिकमलं कमलानि सुगन्धिमधुसमृद्धानि / मधु लीनालिकुलाकुलमलिकुलमपि च मधुरणितमिह // 204 // __ अत्र रसनाक्रमेण मिथः संग्रथितानि 'सलिलं विकाशिकमलम्' इत्यादीनि वाक्यानि 'इह' इत्यन्तस्थितेनाधिकरणवाचिना द्रव्यदीपकेन दीप्यन्ते; तदेतत् रसनादीपकं नामादिदीपकभेदः // सलिलमित्यादि / जलं प्रफुल्लपद्मम् , पद्मानि सुगन्धमधुना समृद्धानि / लीनं यदलिकुलं तेनाकुलं मधु, भ्रमरकुलमपीह वसन्ते मधुरणितं मधुना पुष्परसेन शब्दितं मधौ मधूकद्रुमे वा शब्दितम् / 'मधु पुष्परसक्षौद्रमद्ये ना तु मधुट्ठमे' इति मेदिनीकारः / अत्र क्षुद्रघण्टिकाक्रमेण संग्रथितानि सलिलादिपदान्यन्तःस्थिताधिकरणरूपद्रव्यवाचकेनेहेति पदेन दीप्यन्ते // माला यथा'इमिणा सरएणं ससी ससिणा वि णिसा णिसाँइ कुमुअवणम् / कुमुअवणेण अ पुलिणं पुलिणेण अ सोहए हंसउलम् // 205 // ' [अनया शरदा शशी शशिनापि निशा निशया कुमुदवनम् / कुमुदवनेन च पुलिनं पुलिनेन च शोभते हंसकुलम् // ] . अत्र मालाक्रमेण परस्परप्रथिताः कर्तारो हेतवश्च शशिप्रभृतयः 'शो. भते' इति क्रियया दीप्यन्ते; तदेतन्मालादीपकं नाम दीपकस्य भेदः // ___ कः पुनरस्य पूर्वमाद्विशेषः / पूर्वत्र वृत्तिच्छिन्नं रसनायां सर्वत्र 1. नैष धातुः कापि धातुपाठे वर्तते / 'लुड विलोडने' इति, 'लोड उन्मादे' इति च भौवादिको / उभयोरपि लोडतीति / डलयोरभेदालोलतीति च. 2. 'लीलालिकुल' ग. प. 3. 'णिसाए' ग. 4. अत्रैकमात्राया न्यूनत्वाच्छन्दोदोषः प्रतिभाति. 34 स.क.