________________ "काव्यमाला / श्यामला इत्यादि / प्रावृषेण्यामिर्वर्षजातामिर्जीमूतपतिभिर्मेघसंधैर्दिशः श्यामलाः श्यामाः / रम्याभिर्नूतनतृणपतिभिर्भुवश्व श्यामलाः सन्ति / 'कालश्यामलमेचकाः' इत्यमरः। अत्र जाते इत्यर्थे 'प्रावृष एण्यः 4 / 3 / 17' इत्येण्यप्रत्ययः। 'घनजीमूतमुदिर' इत्यमरः / 'शाद्वलः शादहरिते' इति च / 'शादः स्यात्कर्दमे शस्ये' इति मेदिनीकारः / अत्र श्यामलपदेन गुणवाचिनानादिस्थेन दीपनम् / मध्यान्तस्थयोरपि गुणवाचिनोरेवं ज्ञेयमित्याह-एवमिति // द्रव्यवाचिना आदिदीपकं यथा'विष्णुना विक्रमस्थेन दानवानां विभूतयः / वापि नीताः कुतोऽप्यासन्नानीता देवतर्द्धयः // 198 // अत्र 'विष्णुना' इत्यादिपादे द्रव्यपदं तेनादिदीपकमिदं द्रव्यविषयमुच्यते / एवं मध्यान्तयोरपि द्रष्टव्यम् // विष्णुनेत्यादि / दानवानां दनोरपत्यानामसुराणां विभूतयः संपत्तयो विक्रान्तेन विष्णुना क्वापि नीताः प्रापिताः। तेनैव देवतानामृद्धयः श्रियः कुतोऽप्यवधिभूतादानीता आसन् स्थिताः / 'संशता (2) वुपचये ऋद्धिः' इति नानार्थः / अत्र विष्णुशब्दो द्रव्यपर आदिस्थश्च / मध्यान्तस्थयोरपि द्रव्यवाचिनोरेवं द्रष्टव्यमित्याह-एवमिति // अर्थावृत्तिर्यथा... 'हृष्यति चूतेषु चिरं तुष्यति बकुलेषु मोदते मरुति / . इह हि मधौ कलकूजिषु पिकेषु च प्रीयते कामी // 199 // ' - अत्र 'हृष्यति, तुष्यति, मोदते, प्रीयते' इत्येतैः पदैः स एवार्थ आवय॑मानः सर्ववाक्यानि दीपयति; सेयमर्थावृत्तिर्दीपकस्य भेदः // हृष्यतीति / कामी इह मधौ वसन्ते चूतेषु हृष्यति हृष्टो भवति / बकुलेषु तुष्यति / मरुति वाते मोदते। कलरवेषु कोकिलेषु च प्रीयते प्रीतो भवति / सर्वत्र चिरमित्यन्वयः / हिरवधारणे / प्रीयत इति 'प्रीङ प्रीतौ' देवादिकः / अत्र हृष्यतीत्यादिपदैरावर्तमानोऽर्थः सर्ववाक्यदीपकः // 1. संपत्तावुपचये ऋद्धिः' इति भवेत. 2. 'प्रीयते' ग.घ. नास्ति,