________________ 1 परिच्छेदः / सरस्वतीकण्ठाभरणम् / तेषु क्रियावाचिना आदिदीपकं यथा। 'चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः / चक्रवालाद्रिकुलेषु कुन्दभासो गुणाश्च ते // 195 // अत्र 'चरन्ति' इति क्रियया द्वयोरपि वाक्ययोरादिपदस्थयैवोपकारः क्रियत इत्यादिदीपकमिदं क्रियाविषयमुच्यते / एवं मध्यान्तयोरपि द्रष्टव्यम् // चरन्तीत्यादि / तव दन्तिनो हस्तिनश्चतुःसमुद्रकूलवनेषु चरन्ति / कुन्दपुष्पदीप्तयो निर्मलास्तव गुणाश्च चक्रवालस्य लोकालोकस्याद्रेः कुलेषु चरन्ति गच्छन्ति / अत्र क्रियावाचिना चरन्तीति पदेनादिस्थेन वाक्यद्वयं दीपितम् / मध्यस्थितेम वा क्रियापदेन यत्र वाक्यदीपनं तदपि मध्यदीपकमन्तदीपकं चेति मन्तव्यमित्याह-एवमिति // जातिवाचिना आदिदीपकं यथा'पवनो दक्षिणः पर्ण जीणं हरति वीरुधाम् / स एव च नताङ्गीनां मानभङ्गाय कल्पते // 196 // अत्र 'पवनः' इत्यादिपादे जातिपदं तेनादिदीपकमिदं जातिविषयमुच्यते / एवं मध्यान्तयोरपि द्रष्टव्यम् // - पवन इत्यादि / दक्षिणः पवनो मलयानिलो वीरुधां लतानां जीणं पक्वं पर्ण पत्रं हरति / स एव पवनो नागरीणां मानभङ्गाय कल्पते शक्तो भवति / अत्र पवनपदस्य सामान्यत एवोभयत्रान्वयाजातिवाचकत्वमादिस्थत्वं च / एवं चेत्ययं समुदायोऽत्यन्तमभेदमाह / मध्यान्तस्थयोरपि जातिवाचिनोर्दीपकं तत्तनाना ज्ञेयमित्याह-एवमिति // गुणवाचिना आदिदीपकं यथा-- 'श्यामलाः प्रावृषेण्याभिर्दिशो जीमूतपतिभिः / . . . भुवश्च सुकुमाराभिर्नवशाद्वलराजिभिः // 197 // ___ अत्र 'श्यामलाः' इत्यादिपादे गुणपदं तेनादिदीपकमिदं गुणविषयमुच्यते / एवं मध्यान्तयोरपि द्रष्टव्यम् // . ... ..... .. :