________________ 524 काव्यमाला। किम् , कपोलयोः पत्रावल्योऽद्याधुना किं नैव लिखिताः। खलुशब्दोऽवधारणे वाक्यभूषायां वा / अत्रायमिति सर्वनामोपस्थापितयाथैकावल्या तुल्ययैव परि. च्छदरूपस्य कर्तृकारकस्य परिष्कारः // उभयकावली यथा'अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया / अहमपि न तया न तया वद राजन् कस्य दोषोऽयम् // 194 // ' अत्राम्बास्नुषास्मदर्थलक्षणैरथैस्तद्वाचिभिः सर्वनामभिः शब्दैरेकावलीक्रमेण मिथोऽनुस्यूतैमिथोऽनुस्यूत एव 'तुष्यति' इति क्रियाहेतुमयेत्यादिभिः परिष्क्रियते; सेयमुभयग्रथितत्वादुभयैकावली परिकरस्यैव भेदः // अम्बेत्यादि / अम्बा माता न मया तुष्यति तुष्टा भवति / न स्नुषया पुत्रवध्वा तुष्यति / सापि स्नुषा नाम्बया न मया च तुष्यति / अहमपि न तयाम्बया न तया स्नुषया च तुष्यामि / हे राजन् , कस्य दोषोऽयमिति वद। वदेत्यत्र वाक्यार्थस्यैव कर्मता / 'अम्बा माताम्बिकापि च' इति रत्नकोषः। 'समाः स्नुषाजनीवध्वः' इत्यमरः / अत्राम्बाद्यर्थैस्तद्वाचकशब्दैश्च मयेत्यादेः परिष्कारः // इति परिकरालंकारनिरूपणम् // दीपकालंकारनिरूपणम् / -दीपकं लक्षयति क्रियाजातिगुणद्रव्यवाचिनैकत्रवर्तिना। सर्ववाक्योपकारश्चेद्दीपकं तन्निगद्यते // 77 // अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरावली / संपुटं रसना माला चक्रवालं च तद्भिदाः // 78 // क्रियेत्यादि / एकत्र स्थितेन जात्यादिवाचिना पदेन यदि सर्ववाक्योपकारः क्रियते तदा दीपकम् / दीपयतीति दीपकमित्यन्वर्थ नाम / अष्टधा तदित्याहअर्थेति / तस्य दीपकस्य भिदा भेदाः //