________________ 4 परिच्छेदः / ] सरखतीकण्ठामरणम् / 523 यदा पर्वतमेदिना पविना त्रायते इति पर्वतमेदिपवित्रस्तम् / हे नर नल इति संबोधनम् / रलयोरेका स्मरणात् / कस्य बहुमतमीषन्मतं जैत्रं किंतु सर्वस्यैव संपूर्णमेव खीकृतम् / बहुमतमितीषदसमाप्तौ बहुच / स चादौ भवति “विभाषा सुपो बहुच पुरस्तात्तु 5 / 3 / 68' इति सूत्रेण / गहनं कठोरम् / हरिः सिंहस्तमिव पर्वतस्य / भिद्यत इति भेदो विवरम् / गुहेति यावत् / तत्संबद्धं तच्छायित्वात् / पवित्रं श्वेतं नरकस्य प्रशस्तपुंसोऽपि जेतारम् / बहुर्बहुमानविषयो मतङ्गो मुनिमेदो येषां ते बहुमतङ्गा हस्तिनस्तेषां पितृत्वेन तस्य पूज्यत्वात् तान् हन्ति तम् / हरिर्विष्णुस्तमिव / पर्वतस्य गोवर्धनस्य भेदकमुत्थापकत्वात् / पवेर्वज्रात् त्रः त्राणं यस्मात्तत् / विष्णुस्मरणस्य तदपि फलम् / नरकस्य दैत्यभेदस्य जैत्रम् / बहुमतङ्गान् हिंस्रान् हन्ति यस्तम् / हरिर्वायुस्तमिव सोऽप्यतिवेगित्वादद्रिभेदी, पवित्रः पवनत्वात् / अत एव नरकस्य कश्मलस्य निवारकः / बहूनां वातयोगिनां खीकृतः गहनः कष्टेन परिचेयश्च भवति / 'इन्द्रे सिंहेऽनिले विष्णौ हरिः शमनसूर्ययोः।' इति शाश्वतः / अत्र हरिमिवेत्यादिशब्दरूपैकावल्या विशेषणत्वेन पयोरूपस्य कर्मकारकस्य परिष्कारः॥ अर्थकावली यथा-. - 'किमिति कबरी यादृक् तादृग् दृशौ किमकज्जले . न खलु लिखिताः पत्रावल्यः किमद्य कपोलयोः / अयमयमयं किंच क्लाम्यत्यसंस्मरणेन ते प्रियसखि सखीहस्तन्यस्तो विलासपरिच्छदः // 193 // ' अत्र 'अयमयमयम्' इति सर्वनामपरामृश्यमानया प्रागुपन्यस्तकारणभूतया ततोऽन्यया वा तथाविधयार्थैकावल्या 'परिच्छदः' इति कर्तृकारकमभिन्नार्थ इव परिष्क्रियते; सेयमकावली परिकरस्यैव भेदः॥ किमित्यादि / हे शशिमुखि, सखीहस्तारोपितोऽयमयं विलासार्थ परिच्छदस्तवासंस्मरणेन किंचिक्लाम्यति / तदाह-कबरी केशवेशः / किमिति याहक तादृक् / न रम्य इत्यर्थः / 'कबरी केशवेशः स्यात्' इत्यमरः। दृशौ नेत्रेअकज्जले -- 1. शाश्वतकोषे तु 'इन्द्रचन्द्राश्ववातार्कशुकमेकयमाहिषु / कपी सिंहे सुवर्णामे वणे विष्णौ हरिं विदुः // ' इति विद्यते /