________________ 522 काव्यमाली.. शब्दतोऽर्थतश्चोपस्कारः कृत इत्युभयकृतोऽयं विरोधश्लेषपरिकरः / एवमलंकारान्तरेष्वपि द्रष्टव्यम् // इअ इत्यादि / 'रचितमृणालाभरणों नलिनीदलोत्थगितपीवरस्तनकलशः / वहति प्रियसंगमेऽपि मदनाकल्पप्रसाधनं युवतिजनः // ' इह युवतिजनः पतिसंगमेऽपि मदनस्याकल्प उत्कण्ठा तदर्थ प्रसाधनमलंकारं वहति / कीदृशः / कृतमृणालालंकारः। पद्मिनीपत्रैरुत्थगित उत्तम्भितः / आवृत इति यावत् / पीवरकुचघटो येन सः। उत्थगित इति उत्पूर्वात् 'थगि (ष्ठगे ) संवरणे' कर्मणि क्तः / 'आकल्पकस्तमोमोहग्रस्ताबू( न्थिकू )त्कलिकामुदोः / ' इति मेदिनीकारः / यद्वा मदनस्य रतिपतेराकल्पकमञ्जनकं प्रसाधनमित्यर्थः / अत्र प्रियसंगमे कामजनकमेव प्रसाधनं युक्तमिह तु तद्वैपरीयेन विरुद्धार्थता / जलक्रीडायां तु मृणाल. नलिनीभ्यां युवतेरुपस्कारः शाब्द आर्थश्च व्यक्त एव // एकावलीति या सापि भिन्ना परिकरान हि / त्रिधा सापि समुद्दिष्टा शब्दार्थोभयभेदतः // 76 // पूर्व प्रति यत्रोत्तरस्य वस्तुनो वीप्सया विशेषणत्वेन स्थापनं निषेधो वा सैकावली / इयमपि परिकरादभिन्नैवेत्याह-एकावलीति / एकेनापरस्य परिष्करणमेकावल्यामपि लभ्यते इत्यनयोरभेद इत्यर्थः // तत्र शब्दैकावली यथा-- 'पर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतङ्गहनम् / .., हरिमिव हरिमिव हरिमिव वहति पयः पश्यत पयोष्णी // 192 // ' अत्र 'हरिमिव, हरिमिव, हरिमिव' इति शब्दैकावल्या विभिन्नार्थया ‘पयः'कर्मकारकमुपस्क्रियते; सेयं शब्दैकावली परिकरस्यैव भेदः / / - पर्वतेत्यादि / इयं पयोष्णी नदीभेदः पयो जलं वहति तत्पश्यत / वाक्यार्थस्यैव वा कर्मता / पयः कीदृशम् / पर्वतस्याद्रेर्भेदनशीलम् / अद्रिं भित्त्वा वहनात् / पवित्रं पुण्यहेतुकम् / नरकस्य निरयस्य जैत्रमत एव बहुमतमनेकसंमतं गहनमगाधम् / हरिरिन्द्रस्तमिव / इन्द्रं कीदृशम् / 'अद्रिपक्षस्य छेद्यत्वेन पर्वतभेदी पविना वज्रेण त्रायते 'अन्यत्रापि दृश्यते' इति त्रः पवित्रः। पश्चात्कर्मधारयः /