________________ 4 परिच्छेदः।] सरखतीकायमस्वम् / 527 पदावृत्तिर्यशा 'उत्कण्ठयति मेघानां माला वृन्दं कलापिनाम् / .. __ यूनामुत्कण्ठयत्यय मानसं मकरध्वजः // 200 // अत्रोहीवं करोति, उत्कण्ठावन्तं करोतीत्यर्थयोः 'उत्कण्ठयति' इति पदमावर्त्यमानं वाक्यद्वयमपि दीपयति; सेयं पदावृत्तिर्दीपकस्य भेदुः / / उत्कण्ठयतीत्यादि / मेघानां पतिः, मयूराणां वृन्दं समूहमुत्कण्ठयत्युद्रीवयति / अद्येदानी कामश्च यूनां चित्तमुत्कण्ठयत्युत्सुकयति / अत्रोत्कण्ठयतीति पदमावळमानं वाक्यद्वयदीपकम् // उभयावृत्तिर्यथा'जय देव भुवनभावन जय भगवन्निखिलवरद निगमनिधे / जय रुचिरचन्द्रशेखर जय मदनान्तक जयादिगुरो // 201 // अत्र जयेत्यर्थः शब्दश्चावय॑मानः सर्ववाक्यानि दीपयति सेयमुभयावृत्तिर्दीपकस्य भेदः // .. जयेत्यादि / हे देव महादेव, भुवनस्य जगतो भावन जनक, जय / हे भगचन्नखिलेषु जनेषु वरप्रद, निगमस्य वेदस्य निधे आश्रय, जय / रम्यचन्द्रचूड, जय। मदननाशक, जय प्रथमगुरो, जय। 'निगमो नगरे वेदे' इति मेदिनीकारः / अत्र जयशब्दस्तदर्थश्चावय॑मानः सर्ववाक्यदीपकः // . आवली यथा- " : 'त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च / परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि // 202 // ' अत्र पूर्वार्धे त्वमिति शब्दार्थयोः प्रथमावृत्तिः प्रथमपादस्थया 1. 'निगमो वाणिजे पुर्या कटे वेदे वणिक्पथे' इति मेदिनी.......: