________________ 120 काव्यमाला। / प्रत्यक्षेत्यादि / तुभ्यं नमः / कीदृशाय / प्रत्यक्षो वस्तूनां पदार्थानां विषयो रूपादिकं यस्य तस्मै। यद्वा प्रत्यक्षौ वस्तुविषयौ पदार्थघटपटादी यस्य तस्मै / पदार्थ इह खर्गापूर्वदेवतादिः / 'रूपादौ विषयः पुमान्' इति मेदिनीकारः / जगतां हितोयोपकारकाय / विश्वस्य भुवनस्य स्थितिरवस्थानम् , प्रलयो नाशः, संभव उत्पत्तिस्तेषां हेतवे / सर्व वस्तु आत्मा खं यस्य तस्मै / सर्वरूपायेत्यर्थः / विजिती रोषकामी येन तस्मै / त्रिभुवनस्य प्रभवे ईश्वराय शिवाय कल्याणकारकाय च / अत्र 'नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च 2 / 3 / 16' इति तुभ्यमिति नमोयोगे उपपदविभक्तिश्चतुर्थी तदर्थ इतरपदार्थैः परिस्क्रियते // उपमारूपकादीनां शब्दार्थोभयभङ्गिभिः / साधम्र्योत्पादनं यत्तन्मन्ये परिकरं विदुः // 75 // उपमेति / उपमादीनां शब्दार्थोभयभङ्गिभिर्यत्साधोत्पादनं स परिकरः / शब्दश्चार्थश्चोभयं च तेषां भङ्गिभिर्भजनैः // तत्र सशब्दकृत उपमायां यथा'कह कह विरएइ परं मग्गं पुलंएइ छेन्जमाविसइ / चोरब कई अत्थं लद्धं दुक्खेण णिबहइ // 18 // " कथं कथं विरचयति पदं मार्ग प्रलोकते छेद्यमाविशति / __चोर इव कविरथै लब्धं दुःखेन निर्वहति // ] अत्र पदमार्गच्छेद्यैः शब्दर्भिन्नार्थर भिन्नार्थविरचनादिक्रियानिवेशिभिः कविचोरयोरप्रसिद्धमौपम्यं साधितमिति शाब्दोऽयमौपम्यपरिकरः / / कह इत्यादि / 'कथं कथमपि रचयति / पदं मार्ग प्रलोकते छेद्यमाविशति / चौर इव कविरथ लब्धं दुःखेन निर्वहति // ' इह कविरथ वाच्यं लब्धं प्राप्तुं दुःखेन निर्वहति समर्थो भवतीत्यर्थः / चौरसाम्यमाह-कथं कथमपि कष्टसृष्ट्या पदं विभक्त्यन्तरं रचयति, कुत्रकुत्रापि वा पदं रचयति, मार्ग कविवर्त्म प्रलोकते पश्यति / अनेन पथा कविभिः किं गतमित्यनुसंदधातीत्यर्थः / छेद्यं छेदनीयमशुद्धमाविशति / चौर इव / यथा चौरः क्वापि कथमपि पदं व्यवसायं पादं वा रचयति, मार्ग गतागतवर्त्म पश्यति, छेद्यं छेदार्ह स्थानं प्रविशति, अर्थ साधुधनं प्राप्तुं दुःखेन शक्नोति तथेत्यर्थः / अत्र साम्यापादकविशेषणैरुपमा असिद्धापि साधिता //