________________ 1 परिच्छेदः। सरखतीकपडामरणम् / अत्र 'अनेन' इति सहार्थः 'यूना, पार्थिवेन' इति च पदाभ्यां परिष्क्रियते; सोऽयं सहार्थपरिकरः॥ .. अनेनेत्यादि / हे रम्भोरु, अनेन तरुणेन भूपेन सह तव मनसो रुचिरभिलाषः कञ्चित्कथयेत्यर्थः / किमर्थम् / वनपत्रिषु विहाँ क्रीडां कर्तुम् / कीदृशीषु / सिप्रा नदीमेदस्तत्तरङ्गसंगिवायुना कल्पितासु / 'कच्चित्कामप्रवेदने' इत्यमरः / अत्रानेनेति ‘सहयुक्तेऽप्रधाने 2 / 3 / 19' इति तृतीया। तत्प्रतिपाद्यः सहार्थोऽत्र विशेषणाभ्यां परिष्क्रियते // तादर्थ्यपरिकरो यथा'इन्दीवरश्यामतनुपोऽयं त्वं रोचनागौरशरीरयष्टिः / अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु 187 अत्र 'अन्योन्यशोभापरिवृद्धये' इति तादार्थः शेषपदार्थैः परिष्क्रियते; सोऽयं तादर्थ्यपरिकरः // . इन्दीवरेत्यादि / वां युवयोर्योगः संबन्धः परस्परशोभासंपत्त्यै भवतु / विद्युन्मेघयोरिव, यथा तयोर्योगः परस्परशोभायै तथेत्यर्थः / अयं नृपो नीलनलिनश्यामाङ्गः, त्वं च गोरोचनावत् गौराङ्गयष्टिः / अत्र परिवृद्धये इति तादयें चतुर्थीति तादर्थ्यार्थपरिष्कारः // उपपदपरिकरो यथा'प्रत्यक्षवस्तुविषयाय जगद्धिताय विश्वस्थितिप्रलयसंभवकारणाय / सर्वात्मने विजितकोपैमनोभवाय तुभ्यं नमस्त्रिभुवनप्रभवे शिवाय // 188 // '. अत्र 'नमस्तुभ्यम्' इत्युपपदार्थः समस्तपदैः परिष्क्रियते; सोऽय. मुपपदपरिकरः // 1. मुद्रितरघुवंशपुस्तकेषु 'नृपोऽसौ' इति पाठः. . 2. 'काममनोभवाय' घ.