________________ 511 कायमाला: लक्षणपरिकरो यथा'महाप्रथिन्ना जघनस्थलेन सा महेमकुम्भोच्चकुचेन वक्षसा / मुखेन दीर्घोज्वललोलचक्षुषा वयस्य कान्ता कथय क वर्तते॥१८॥ अत्र जघनस्थलादीनि लक्षणानि महाप्रथिनेत्यादिभिः परिष्कियन्ते; सोऽयं लक्षणपरिकरः // महावाक्यस्थसंबन्धिपदैलक्षणादयो यत्र लक्ष्यन्ते स परिकर एवेत्युक्तं विवृणोति-लक्षणेति // महेत्यादि / हे वयस्य मित्र, त्वं कथय सा कान्ता क वर्तते / कीदृशी / महान् प्रथिमा स्थूलत्वं यस्य तेन जघनस्थलेन लक्षिता। महाकुम्भिकुम्भस्थलादप्युच्ची कुचौ यत्र तेन हृदयेन लक्षिता / दीर्घ, उज्वले, निर्मले, लोले चपले चक्षुषी यत्र तेन मुखेन लक्षिता च / इह लक्षकपदानां संबन्धिभिर्विशेषणैः परिष्कारः // हेतुपरिकरो यथा'त्वया जगन्ति पुण्यानि त्वयंपुण्या जनोक्तयः / नाथवन्तस्त्वया लोकास्त्वमनाथा विपर्यसे // 185 // अत्र प्रथमतृतीयपादयोः 'स्वया, त्वया' इति हेतू द्वितीयचतुर्थपादाभ्यां परिष्क्रियेते; सोऽयं हेतुपरिकरः // आदिपदग्राह्यं हेत्वादि / तत्र हेतावाह-हेत्विति / त्वयेत्यादि / त्वया जगन्ति पवित्राणि / त्वयि जनोक्तयोऽपुण्या अकुशलाः / त्वया लोका जना नाथवन्तः सरक्षकाः। त्वमनाथा अशरणा विपद्यसे विपन्ना भवसि / अत्र हेतुद्वयपरिष्कारो व्यक्त एव // .... सहार्थपरिकरो यथा 'अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते.। :: सिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरम्परासु // 18 // ' 1. 'स्वया पुण्या' क-घ. 2. मुद्रित उत्तररामचरिते ‘विपत्स्यसे' इति पाठः.