________________ 4 परिच्छेदः / सरखतीकण्ठाभरणम् / निशा यथा यथा समाप्यते स्वयं समाप्तिं याति / कर्मकर्तरि तङ् / तथा तथा शशिबिम्बं घूर्णते / कीदृशम् / वेपनशीलतरङ्गे प्रतिमया प्रतिबिम्बेन पतितम् / - किंकर्तव्यमत्रेति विमूढं मुग्धमुदधेर्हृदयमिव / इवशब्द उत्प्रेक्षायाम् / अत्र तच्छन्दयच्छब्दयो+परीत्यम् / यथा शशिबिम्बं घूर्णते तथा निशा समाप्यत इति वक्तव्ये यथोक्तं विपरीतम् / तद्विशेषणयोगः क्रियाविशेषणान्तरयोगो वीप्साकारितः // क्रियाविशेषणं कैश्चित्संबोधनमपीष्यते / . . संबन्धिभिः पदैरेव लक्ष्यन्ते लक्षणादयः // 74 // तेषु संबोधनपरिकरो यथा“धर्मस्योत्सववैजयन्ति मुकुटस्रग्वेणि गौरीपते स्त्वां रत्नाकरपत्नि जहुतनये भागीरथि प्रार्थये / त्वत्तोयान्तशिलानिषण्णवपुषस्त्वद्वीचिभिः प्रेक्षत स्त्वन्नाम स्मरतस्त्वदर्पितदृशःप्राणाःप्रयास्यन्ति मे // 183 // ' अत्र 'भागीरथि' इति संबोधनपदं 'धर्मस्योत्सववैजयन्ति' इत्यादिभिः परिष्क्रियते / तत्र यथाकथंचिदप्युच्यमानोऽर्थः क्रियाविशेषणत्वं नातिक्रामतीत्ययमपि क्रियापरिकरः / .. धर्मस्येत्यादि / हे भगीरथि भगीरथावतारिते हे गङ्गे, त्वामहं प्रार्थये धर्मस्योत्सवे वैजयन्ति पताकारूपे, हे भवानीपतेर्मुकुटमालारूपा वेणी प्रवाहो यस्यास्तादृशे, हे रत्नाकरस्य समुद्रस्य पनि जाये, हे जहुमुनिकन्यके / प्रार्थनाविषयमाह-मम प्राणाः प्रयास्यन्ति गमिष्यन्ति। कीदृशस्य / त्वत्तोयस्यान्ते समीपे शिलानिषण्णाङ्गस्य त्वद्वीचिभिः त्वत्तरङ्गैः प्रेततश्चलतस्त्वदीयं नाम स्मरतस्त्वदर्पितदृशस्त्वयि दत्तनेत्रस्य च / 'वैजयन्ती पताकायाम्' इति मेदिनीकारः। 'अन्तः शेषेऽन्तिके स्त्रियाम्' इति च / अन्न स्फुटक्रियाविशेषणत्वं नास्तीत्यत आह-तत्रेति / विशिष्टायाः प्रार्थनकर्मतया विशेषणस्याप्यन्वय इति यथाकथंचिदित्यस्यार्थः // 1. क्रियाविशेषणम्' क. ख.