________________ 516 काव्यमाला। समासाव्ययानां संनिपातरूपेऽपि क्रियापरिकरे 'यथा, तथा' इत्येतयोः प्राधान्यात्तद्धितेनैवोपदिश्यते // .. अकृतेत्यादि / एता मृगपतयस्तथा तेन प्रकारेण निबिडनेत्रजलैर्मुखैरसकृद्वारवारं गगनं पश्यन्ति / यथा येन प्रकारेण नयनजलं भ्रमत् सत् शृङ्गाग्रेभ्यो निपतति / किं कृत्वा / अकृतकवलोद्यमैरास्यैः किमपि वलितग्रीवमुत्तोलितघाटाकं यथा स्यादेवं स्थित्वा / कीदृश्यः / भयेन स्थगिते निश्चले ईक्षणे थासां ताः / अत्र तथेत्यत्र प्रकारवचने थाल् / पश्यन्तीति क्रियायामनेनानेन क्रियाविशेषणेन सह विशेषयतीत्यन्वयः॥ असकृदिति ‘एकस्य सकृच्च 5 / 4 / 19' इति सुच्प्रत्ययः, सकृदादेशः संयोगान्तलोपश्च / तेन सकृच्छब्दस्तद्धिताधिकारीयः / पश्चान्नञ्समासः / चलिता ग्रीवा यत्रेति समासः / नाम्ना प्रातिपदिकेन / क्त्वाप्रत्ययः कृत् / मुहुरिति / वारंवारं स्थित्वेत्यत्र पूर्वकालिकावस्थान एव 'वीप्सेति कृदर्थे वीप्सा स्यादेवेत्यर्थः / द्वितीय इति / यथेत्यत्र थाल् / तमेवार्थ प्रकाररूपं संदधान उपस्थापयन् पूर्वक्रियायाः प्रधानक्रियायाः पश्यन्तीतिरूपाया विशेषणं भवति / तथा च कृत्वसुचा प्रत्ययेनोक्तं यत्स्थानं वारंवारादिलक्षणं तेन यदि तद्धित उच्यते तद्धितस्य वारंवारार्थता भवति तदायं परिकरभेदः कृत्प्रभृतीनां संनिपातरूपः समन्वयरूप इत्यर्थः // एतेन तद्यदोविपर्ययस्तद्विशेषणयोगश्च व्याख्यातः / तद्यथा'जह जह णिसा समप्पइ तह तह वेविरतरङ्गपडिमापंडिअम् / किंकाअवविमूढं वेवई हिअअं व्व उअहिणो ससिबिम्बम् // 182 // " [यथा यथा निशा समाप्यते तथा तथा वेपमानतरङ्गप्रतिमापतितम् / किंकर्तव्यविमूढं वेपते हृदयमिवोदधेः शशिबिम्बम् // ] अत्र 'यथा, तथा' इति क्रियाविशेषणयोरपरमपि विशेषणं वीप्सा भवति / सोऽयमेवंप्रकारः क्रियापरिकरो द्रष्टव्यः // जह जहेत्यादि / “यथा यथा निशा समाप्यते तथा तथा वेपमानतरङ्गप्रतिमापतितम् / किंकर्तव्यविमूढं वेपते हृदयमिवोदधेः शशिबिम्बम् // " इह 1. सेतुबन्धे 'वडिअम्' इति पाठः. 2-3. सेतुबन्धे 'धोडइ' इति पाठः, 'घूर्णते' इति छाया च.