________________ 1 परिच्छेदः / सरखतीकण्ठाभरणम् / . शतमित्यादि / हे प्रियसखि, तथापि स धृष्टो मां क्लिश्यन् क्षणमपि न विरमति न विरक्तो भवति / कीदृशः / परुषनिष्ठुरैर्वचनैः शतं वारान्यथा स्यादेवमुक्तः, पदे निपतितः, स च पार्णिहतिभिः पादतलप्रहारैः सहस्रं वारान्निधूतश्चालितः, इह विषये भृकुटयः पुनः कियत्कृत्वः कियद्वारान् न बद्धा इति न वेनि / वारानिति 'वृञ् वरणे' भावे घञ्। तेन वारपदमावृत्तिवचनं खत एव कियत्कृत्व इति / 'निष्ठुरं परुषं ग्राम्यम्' इत्यमरः। अत्र वारशब्दः कृदन्तः / कियत्कृत्व इत्यत्र वारसंख्यावाचकतायां कृत्वसुजिति कृदर्थता / कृदन्तस्य कृदर्थस्य चावृत्तिरूपेण पौनःपुन्यतया क्रियाविशेषणता / 'नपुंसकत्वं कर्मत्वं तुल्यत्वं च तथैकता / क्रियाविशेषणस्यैव मतं सूरिभिरादरात् // ' इति मतमनुमत्य क्लीबत्वमुष्ट्रासिकादीनां शङ्कते-नन्विति / समाधत्ते-त्रिधेति / यत्र धर्मधर्मिणोरमेदोपचारस्तत्र धर्मोऽजहत्स्वरूप एव धर्मिविशेषकः / सोऽयमित्यादौ विशेषरूपेण लिङ्गसंख्ययोरन्वये उष्ट्रासिकादौ कथमन्यलिङ्गग्रहः / 'गुणवचनानामाश्रयतो लिङ्गवचनानि' इति गुणरूपाणां विशेष्यलिङ्गता // . तद्धितकृत्वसुचोक्तः, थालादिनोच्यते- यथा- . .... 'अकृतकवलारम्भैर्भूयो भयस्थगितेक्षणाः किमपि वलितग्रीवं स्थित्वा मुहुर्मुगपतयः। गगनमसकृत्पश्यन्त्येतास्तथाश्रुधनैर्मुखै निपतति यथा शृङ्गाग्नेभ्यो भ्रमन्नयनोदकम् // 181 // अत्राद्यः प्रकारवचने थाल् अनेकवारानित्यर्थे 'असकृत्' इति तद्धितेन, 'पश्यन्ति' इति क्रियायाम्, 'वलितग्रीवम्' इति समासेन, 'किमपि' इति नाम्नाव्ययेन, 'स्थित्वा' इति कृता, 'मुहुः' इति कृदर्थे वीप्सया च क्रियाविशेषणेन सह विशेषयति, द्वितीयश्च न्यथा प्रमनयनोदकं निपतति' इति शतृलक्षितया 'पतैति' इति क्रियया तमे. वार्थमनुसंदधानः पूर्व क्रियाया एव विशेषणं भवति, सोऽयं कृत्तद्धित 1. तद्धितकृत्समासान्ययोक्तस्थानादिनोच्यते? घ. 2. 'क्रियाम्' 'क्रियायाः' वा भवेत्. 3. 'पतनक्रियया' क. ख. 4. 'योऽयम्' ग. घ. ....."