________________ काव्यमाली। कुत्साप्रतिपादनम् / कुत्सामेवाह-या हीति / तथा च तद्विशेषयोगाद्बहुत्वमित्येवाह-ताभिरिति / उपमानोपमेयसंबन्धेन जनितोऽमेदो यस्याः सा। भेद. परिग्रहाद्भेदपुरस्कारात् / लकारेण भावप्रत्ययेन / लकारवाच्यमर्थमाह-तेनेति // / कचित् पुनर्बाह्यमपि कृद्रूपं कृदर्थरूपं वा क्रियाविशेषणं भवति / यथा.. 'शतं वारानुक्तः प्रियसखि वचोभिः स परुषैः ___ सहस्रं निर्धूतः पदनिपतितः पार्णिहतिभिः / कियत्कृत्वो बद्धाः पुनरिह म वेद्मि भृकुटय स्तथापि क्लिश्यन्मां क्षणमपि न धृष्टो विरमति // 180 // ' अत्र 'वारान्' इति वारशब्दः कृदन्तः / वारसंख्यायाः कृत्वसुजिति कृत्वसुच् कृदर्थः / ताविमौ द्वावप्यावृत्तिरूपेण क्रियाया विशेषणं भवतः / नन्वेवमुष्ट्रासिकादीनां वारादीनां च क्रियाविशेषणत्वात् कर्मतेव नपुंसकलिङ्गतापि प्रामोति / यथा-मृदु पचति, प्रशस्तं पठतीति / उच्यते / त्रिधा खलु क्रियाविशेषणं भवति-बाह्यम् , आभ्यन्तरम् , बाह्याभ्यन्तरं च / तत्र बाह्यं कर्मरूपं वारादि, आभ्यन्तरं विशेषरूपमुष्ट्रासिकादि, बाह्याभ्यन्तरं गुणरूपं मृद्वादि / तेषु बाह्यं सोऽयमित्यभिधायासंबन्धादभेदोपचारेणाविचलितखरूपमेवं प्रधानं विशिषत् कथमिव खलिङ्गं जह्यात्, आभ्यन्तरं तु विशेषापरिग्रहादाविष्टलिङ्गसंख्यं कथमिवान्यलिङ्गं गृह्णीयात् / बाह्याभ्यन्तरं तु गुणत्वात् खलिङ्गविरहे ‘गुणवचनानामाश्रयतो गुणवचनानि' इति विशेष्यलिङ्गग्राह्येव भवति // . . . . 1. वारादीनाम्' ख. घ... 2. बाह्याभ्यन्तररूपम्' ग. व. 3. 'च प्रधानं विशिषत्' घ. 4. विशेष्यलिङ्गग्राह्यमेव' ख... ........ .......