________________ 4 परिच्छेदः / सरस्वतीकण्ठाभरणम् / ___ अत्र 'उष्ट्रासिका आस्यन्ते', 'हतशायिकाः शय्यन्ते' इत्यमूभ्यां सामान्यविशेषोपचरितरूपो भावात्मा ण्वुलैव प्रत्याय्यते / स आख्याताभ्यां सामान्यरूपेण, ण्वुलन्ताभ्यां विशेषरूपेण / बहुवचनं चेह कुत्सातिशयार्थम् / याहि नामोष्ट्रस्य कुत्सावत्यो बहुप्रकारवत्यो वक्षःसु आसिकाः, याश्च हतानामतिशयवत्यस्तथाभूता एव भूयस्यः शायिकाः प्रतीतास्ताभिर्विशेषरूपाभिरियमासिका शायिका चोपमानोपमेयसंबन्धजनितभेदाभेदपरिग्रहालकारेणापि बहुत्वेनैव प्रत्याय्यते / तेनोष्ट्रासिका इवासनानि, हतशायिका इव शयनानि क्रियन्ते भवन्तीति वाक्यार्थो भवति, सोऽयं यथोक्तः क्रियापरिकरः // .. शय्यन्त इत्यादि / पथि वृक्षच्छायोपविष्टपान्थैर्हतशायिका निन्दितशयनानीव शय्यन्ते शयनानि क्रियन्ते / श्रीकण्ठगृहेषु धार्मिकजनैस्तपस्विभिरुष्ट्रासिका इवोष्ट्रोपवेशनानीवास्यन्ते स्थीयन्ते। यथोष्ट्रो यत्र कुत्रचिदुपविशति तथा तपखिभिरप्युपविश्यत इत्यर्थः / हे सखि, तत्र निकुञ्जशाखिनि निकुञ्जवृक्षे शून्ये विजने ग्रीष्मस्य मध्याह्ने सज्जानां सुसज्जानामभिसारिकाणां प्रियस्याभिसारणव्यापारे रम्यःक्षणो वर्तते। शय्यन्त इति ‘शीङ् खप्ने' भावे यक् / शायिका इति 'धात्वर्थनिर्देशे ण्वुल् वक्तव्यः' इति शीद्धातोः ण्वुल् / तथा च शायिकाः शयनानीत्यर्थः / श्रीकण्ठः शिवः / 'श्रीकण्ठः शितिकण्ठः कपालभृत्' इत्यमरः।आसिका इति। 'आस उपवेशने' 'धात्वर्थनिर्देशे ण्वुल् वक्तव्यः' इति ण्वुल् / तेन आसिका आसनानीत्यर्थः / 'सज्जः स्यात् संनद्धे संमृते त्रिषु' इति मेदिनीकारः / अत्र शयितापेक्षयोपविष्टस्याभिसरणे वारणीयत्वख्यापनार्थ विवरणे वैपरीत्यमाह-अत्रेति / अमूभ्यां वाक्याभ्याम् / सामान्यविशेषाभ्यां शय्यन्ते आस्यन्ते इति सामान्यम् , हतशायिका उष्ट्रासिकेति विशेषस्ताभ्यामुपरचितमुपस्थापितं रूपं स्वरूपं यस्य सः / भावात्मा भावरूपो धर्म इति यावत् / प्रत्याय्यते बोध्यते / आख्याताभ्यामास्यन्ते शय्यन्त इत्यत्र / सामान्यरूपेण सामान्याकारण। ण्वुलेति / उष्ट्रासिकाहतशायिकापदाभ्यामित्यर्थः / विशेषेति / विशेष्ये तयोः कथनादित्यर्थः / तर्हि भावस्यैकत्वादेकवचनं स्यात्तत्कथं बहुवचनं शय्यन्ते आस्यन्ते इति स्यादत आह-बहुवचनमिति / विशेषक्रियागतबहुत्वस्यैव सामान्यक्रियाया विवक्षितत्वाद्बहुवचनमित्यर्थः / विवक्षामूलं 33 स. क.