________________ 510 काव्यमाला। धीरमित्यादि / “धैर्य हरति विषादो विनयं यौवनमदोऽनङ्गो लज्जाम् / . एकान्तगृहीतपक्षः किं शिष्यते यं स्थापयति वयःपरिणामः // " इह विषादो धैर्य हरति, विनयमनौद्धत्यं वशित्वं वा यौवनमदो हरति, अनङ्गो लज्जां हरति / एका-' न्तेन गृहीतः पक्षो येन सः। अद्भुत इत्यर्थः / यद्वान्तःस्वरूपे एको गृहीतपक्षः सर्वहरस्वरूपो येन स वयःपरिणामो यत्स्थापयति स्थिरीकरोति तत्कि शिष्यतेऽव. शिष्यते, किंतु सर्वमेव हरतीति भावः / अत्र साध्यस्य दृष्टान्तैः परिष्कारः // दृष्टान्तपरिकरो यथा'मज्झटिअधरणिहरं झिज्जइ अ समुद्दमण्डलं उज्वेलम् / रइरहवेअविअलिअं पडिअं विअ उक्खडक्खकोडिं चकम् 175 [मध्यस्थितधरणिधरं क्षीयते च समुद्रमण्डलमुद्वेलम् / रविरथवेगविगलितं पतितमिवोत्कटाक्षकोटि चक्रम् // ] अत्र प्रक्षिप्तमन्दरसमुद्रोदाहरणभूतं रविरथचक्रं 'उत्कटाक्षकोटि' इति विशेषणेन साम्यसिद्धये परिकरितमिति दृष्टान्तपरिकरोऽयम् // . मझेत्यादि / “मध्यस्थितधरणिधरं क्षीयते च समुद्रमण्डलमुद्वेलम् / रविरथवेगविगलितं पतितमिवोत्कटाक्षकोटि चक्रम् // " इह समुद्रमण्डलं क्षीयते च / चः पूर्वापेक्षया समुच्चये / कीदृशम् / मध्यस्थितो धरणिधरो मन्दरगिरिर्यत्र तत् / अत एवोद्वेलमुद्गतजलम् / 'वेला तत्तीरनीरयोः' इत्यमरः / सूर्यरथवेगेन स्खलितमनन्तरं पतितं चक्रमिव / चक्र कीदृशम् / उत्कटा उद्भटा अक्षकोटिश्चक्राग्रं यत्र तत् / 'अक्षश्चक्रेऽपि पाशके' इति विश्वः / अत्र दृष्टान्तस्य साम्याथ विशेषणैः परिष्कारः॥ वस्तुपरिकरो यथा.. "देवी पुत्रमसूत नृत्यत गणाः किं तिष्ठतेत्युद्धजे हर्षाङ्गिरिटावुदाहृतगिरा चामुण्डयालिङ्गिते / पायाद्वो जितदेवदुन्दुभिघनध्वानः प्रवृत्तस्तयो1 रन्योन्याङ्गनिपातजर्जरजरत्स्थूलास्थिजन्मा रवः // 156 // ' अत्र चामुण्डाभृङ्गिरिटिपरिष्वङ्गसंघट्टितपरस्परहृदयास्थिजन्मनः