________________ 4 परिच्छेदः / सरस्वतीकण्ठाभरणम् / शब्दस्य वस्तुतया परिगृहीतस्य 'देवी पुत्रमसूत-' इत्यादिभिः परिकरितत्वादयं वस्तुपरिकरः // देवीत्यादि / देवी गौरी पुत्रमसूत सूते स्म / ततो हे गणाः, नृत्यत नृत्वं कुरुत किमुपविष्टा भवथ इति कृत्वा उद्बुजे उत्तोलितबाही भृङ्गिरिटौ भृङ्गिनामके गणे चामुण्डया आलिङ्गिते सति तयोभृङ्गिरिटिचामुण्डयो रवः शब्दो वो युष्मान् पायाद्रक्षतु / चामुण्डया कीदृश्या / हर्षादुदाहृतोक्ता गीभृङ्गिरिटिवाणी यया तया / रवः कीदृशः / परस्परागसंबन्धेन जर्जरं स्फुटितं यजीणं स्थूलास्थि तस्माजन्म उत्पत्तिर्यस्य मः / जिता देवदुन्दुभेर्देवभेर्या निबिडध्वानस्य प्रवृत्तिर्येन सः / 'भेर्यामानकदुन्दुभी' इत्यमरः / अत्र शब्दविशेषस्य वस्तुत्वेन गृहीतस्य विशेषणः परिष्कारः॥ क्रिया यथा समासेन तथा कृत्तद्धितादिभिः / विशेष्यते तदाहुस्तं क्रियापरिकरं परम् // 73 // क्रियेति / यथा समासेन क्रिया विशेष्यते तथा यदि कृत्तद्धितादिभिर्विशेष्यते तदा क्रियापरिकर एव // तत्र कृता तादर्थेन यथा 'गेहाद्याता सरितमुदकं हारिका नाजिहीषे मङ्ख्यामीति श्रयसि यमुनातीरवीरुगृहाणि / गोसंदायी विशसि विपिनान्येव गोवर्धनाद्रे न त्वं राधे दृशि निपतिता देवकीनन्दनस्य // 177 // ' अत्र 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् 3 / 3 / 10' इत्यादिभिरुपपदभूतापि क्रियैव विशेष्यते, तेनायमपरः क्रियापरिकरो भवति / एवं लक्षणादिषु शत्रादिभिरपि द्रष्टव्यम् // गेहादित्यादि / हे राधे, त्वं देवकीनन्दनस्य कृष्णस्य दृशि नेत्रे न निपति. तासि / त्वं गेहात्सरितं नदी याता गता उदकं हारिका उदकमाहर्तुं न पुनराजिहीषे न पुनरागच्छसि / मङ्यामि स्नास्यामीति कृत्वा यमुनातीरे वीरुधां लतानां गृहाणि श्रयस्याश्रयसि / गोसंदायी गवां बन्धनकारिणी सती गोवर्धनादेवनान्येव