________________ 4 परिच्छेदः / ] सरस्वतीकण्ठाभरणम् / 509 सीता पतिता च / न केवलं मूच्छिता किंतु पतितापीति चकारार्थः / कीदृशी / हस्तेन शिथिलीकृतो निरोधो यन्त्रण कपोलस्य अत एव पाणिपीडनत्यागात्पाण्डुरः समुच्छ्वसन् कपोलो यस्याः सा / यद्वा हस्तप्रहतनिरोधेन तत्संपर्कात्पाण्डुरः पीडनत्यागात्समुच्छ्रसन् कपोलो यस्याः सा / प्रेरितेन वामेन पयोधरेण स्तनेन. विषमस्तिरश्चीन उन्नतो दक्षिणः स्तनो यस्याः सा / वामस्तनस्य चलनं प्रेरणमत्र रामादचिरभाविदुःखापनयनमिति सूचनम् / यद्वा स्त्रीणां वामः स्तनो निजो दक्षिणः पुरुषस्येति तेनैव पतिता / अत्र कर्तुः कारकतया तद्वाचकपदमेव परिष्कृतम् // संबन्धिपरिकरो यथा'उम्मूलिआण खुलिआ उक्खिप्पन्ताण उजु ओसरिआ। णिजन्ताण णिराआ गिरीण मग्गेण पत्थिआ णइसोत्ता // 173 / / ' [उन्मूलितानां खण्डितान्युत्क्षिप्यमाणानमृजुकमपसृतानि / नीयमानानां निरायतानि गिरीणां मार्गेण प्रस्थितानि नदीस्रोतांसि // ] अत्रोद्रियमाणगिरिसंबन्धिनोऽप्रयोजका अपि नदीप्रवाहा विशेपणैरुपस्कृता इति संबन्धिपरिकरोऽयम् // उम्मूलिआ इत्यादि / “उन्मूलितानां खण्डितान्युक्षिप्यमाणानामृजुकमप. सूतानि / नीयमानानां निरायतानि गिरीणां मार्गेण प्रस्थितानि नदीस्रोतांसि // " कीदृशानां कीदृशानि च / उन्मूलितानां चालनतः खण्डितानि, उत्क्षिप्यमाणानां ऋजुकमवकं यथा स्यादेवमपसृतानि, नीयमानानां निरायतानि वेगवशादवक्राणि च / अत्र नदीप्रवाहस्य संबन्धिनो विशेषणैः परिष्कारः // साध्यपरिकरो यथा'धीरं हरइ विसाओ विणअं जोवणमओ अणङ्गो लज्जम् / एक्कन्तगहिअवक्खो कि सेसउ जं ठवेइ वअपरिणामो // 17 // धैर्य हरति विषादो विनयं यौवनमदोऽनङ्गो लज्जाम् / / एकान्तगृहीतपक्षः किं शिष्यतां यं स्थापयति वयःपरिणामः // ] अत्र गतवयसो न धैर्यम् , न विनयो, न लज्जेति साध्यं विषादयौवनमदानङ्गक्रियादृष्टान्तैरुपस्कृतमिति साध्यपरिकरोऽयम् //