________________ 504 काव्यमाला। तेषु क्रियापरिकरो यथा'ववसिअणिवेइअत्थो सो मारुइलद्धपच्चआगअहरिसम् / सुग्गीवेण उरत्थलवणमालामलिअमहुअरं उवऊढो // 171 // ' व्यवसितनिवेदितार्थः स मारुतिलब्धप्रत्ययागतहर्षम् / __सुग्रीवेणोरःस्थलवनमालामृदितमधुकरमुपगूढः // ] अत्र 'मारुतिलब्धप्रत्ययागतहर्षम्' इत्यनेन, 'उरःस्थलवनमालामृदितमधुकरम्' इत्यनेन चोपगूहनक्रियायाः परिकरितत्वादयं क्रियापरिकरः।। ववसिअ इत्यादि / “व्यवसितनिवेदितार्थः स मारुतिलब्धप्रत्ययागतहर्षम् / सुग्रीवेणोरःस्थलवनमालामृदितमधुकरमुपगूढः // " इह स विभीषणः सुग्रीवेणोपगूढ आलिङ्गितः / कीदृशः / व्यवसितस्य व्यवसायस्य निवेदितोऽर्थो येन सः.। यद्वा व्यवसितश्चिकीर्षितो रामसाहाय्यरूपो निवेदितोऽर्थो येन सः / मारुतिना हनू. मता लब्धप्रत्ययेन प्राप्तविश्वासेनागतहर्ष यथा स्यादेवमुरःस्थलस्य वनमालायां मृदिता मधुकरा यत्र तद्यथा स्यादेवमित्युपगृहनक्रियाया विशेषणद्वयम् / 'प्रत्ययः सहजे ज्ञाने विश्वासाचारहेतुषु / ' इति मेदिनीकारः / अत्र प्रधानक्रियाया विशेषणद्वयेन परिष्कृतत्वात्क्रियापरिकरत्वम् // कारकपरिकरो यथा'पडिआ अ हत्थसिढिलिअणिरोहपण्डरसमूससन्तकवोला / पेल्लिअवामपओहरविसमुण्णअदाहिणत्थणी जणअसुआ // 172 // " [पतिता च हस्तशिथिलितनिरोधपाण्डुरसमुच्छसत्कपोला / प्रेरितवामपयोधरविषमोन्नतदक्षिणस्तनी जनकसुता // ] अत्र 'हस्तशिथिलितनिरोधपाण्डुरसमुच्छृसत्कपोला' इत्यनेन, 'प्रेरितवामपयोधरविषमोन्नतदक्षिणस्तनी' इत्यनेन च 'जनकसुता' इति च कारकपदस्य परिकरितत्वादयं कारकपरिकरः // पडिआअ इत्यादि / “पतिता च हस्तशिथिलितनिरोधपाण्डुरसमुच्छ्रसत्कपोला / प्रेरितवामपयोधरविषमोन्नतदक्षिणस्तनी जनकसुता // ". इह जनकसुता 1. 'जनकसुता इत्यनेन च' इति ग,