________________ 4 परिच्छेदः / सरखतीकण्ठाभरणम् / .507 विषमाः सप्त, तथापि रविस्तेजखी जगत्रयमाक्रामति / “सप्ताश्वा नवे दन्तिनः' इति नीतौ निषेधः / आक्रामतीत्यत्रोत्क्रमणाभावात् 'आङ उद्गमने 113640' इति न त / अत्र रथादीनामेकदेशविकलतेति द्वितीयेयम् // 'द्रव्यस्य योगायोगाभ्यामवैकल्येनापि कचिदेषा विशेषायाविशेषाय च यथा .. 'अयं तया रथक्षोभादंसेनांसो निपीडितः। / / एकः कृती शरीरेऽस्मिशेषमङ्गं भुवो भरः // 170 // ' अत्र 'अयं तया स्पृष्टोंऽसः स पुण्यवान्, तया चास्पृष्टं शेषमङ्गं मे निरर्थकम्' इति योऽयमवैकल्यदर्शनेऽपि विशेषस्तेनैषाहेतुमत्यपि हेतुमता विशेष्यमाणा यथोक्ता विशेषोक्तिर्भवति / या पुनरिहोर्वश्यामितो वाक्यागुणादिवैशिष्ट्यावगतिः सा पर्यायोक्तिर्न विशेषोक्तिः // - अयमित्यादि / अयमंसो बाहुमूलं तया स्त्रिया रतिलोभान्निजांसेन निपीडित इत्येक एवायं ममाङ्गे कृती रम्यः। शेषमङ्ग भूमेरो भारजनकम् / शेषशब्दः कर्मघअन्तो वाच्यलिङ्गः / अङ्गभरशब्दयोरजहल्लिङ्गतयान्वयः / अत्रावैकल्यदर्शनेऽपि विशेषोक्तेरियमन्या भवति / यद्यनेन वाक्येनोर्वश्या गुणविशेषवत्त्वज्ञानं तदोक्तलक्षणाभावात्पर्यायोक्तिरेवेत्याह-यत्पुनरिति // इति विशेषालंकारनिरूपणम् / परिकरालंकारनिरूपणम् / परिकरं लक्षयति क्रियाकारकसंबन्धिसाध्यदृष्टान्तवस्तुषु / क्रियापदाद्युपस्कारमाहुः परिकरं बुधाः // 72 / / क्रियेति / क्रिया धात्वर्थः, कारकं कर्मादि, संबन्धी संबन्धवान् , साध्य सिसाधयिषितम् , दृष्टान्तो निदर्शनम् , वस्तु पदार्थः / एषु क्रियापदादेरुपस्कारः परिष्कारः परिकरः / साभिप्रायविशेषणेन विशेष्योक्तिः परिकर इति लक्षणम् // 1. 'विशिष्टावगतिः' इति ख. ग.