________________ काव्यमाला। अत्र भूभङ्गादेरभावेऽपि योऽयं द्विषतां जयस्तेन वर्णनीयस्य प्रतापातिशयः प्रतीयते; सेयं प्रतीयमानविशेषहेतुः क्रियावैकल्यवती विशेषोक्तिः // न बद्धेत्यादि / भ्रूभङ्गो न बद्धः, अधरोऽपि न स्फुरितः, दृष्टिरपि न रक्ता वृत्ता, तथापि वीर, त्वया द्विषतां शत्रूणां कुलं जितम् / अत्र भृकुटीत्यादिक्रियानिषेधात्कियावैकल्यम् / अतिशयस्तु लीलया शत्रुजयः // आदिग्रहणाद्रव्यवैकल्येन यथा'न स्था न च मातङ्गा न हया न च पत्तयः / स्त्रीणामपाङ्गदृष्टयैव जीयते जगतां त्रयम् // 168 // अत्र रथादेरभावेऽपि जगत्रयविजयहेतुः स्त्रीणामपाडावलोकनमभिधीयते; सेयमभिधेयविशेषहेतुव्यवैकल्यवती विशेषोक्तिः // न रथा इत्यादि / न रथा न च हस्तिनो नाश्वा न वा पदातयः सन्ति तथापि स्त्रीणामपाङ्गदृष्ट्यैव कटाक्षेणैव लोकत्रयं जीयते / 'हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् / ' इत्यमरः / तदिह सेनाङ्गनिषेधाव्यवैकल्यम् , अतिशयस्तु तदभावेऽपि त्रिभुवनजयः / द्रव्यस्यापि वैकल्येनैकदेशविकलतया अपरा विशेषोक्तिः / प्रथमा द्रव्यवैकल्यवती, इयं तु द्रव्यैकदेशवैकल्यवतीति भेदः // द्रव्यस्यापि वैकल्येन यथा. 'एकचक्रो रथो यन्ता विकलो विषमा हयाः / आक्रामत्येव तेजखी तथाप्यों जगत्रयम् // 169 // अत्र रथादीनां द्रव्याणामेकचक्रत्वादिभिर्वैकल्येऽपि यदेतद्भगवतो भास्करस्य भुवनत्रयाक्रमणं तस्येह तेजखिता हेतुरभिधीयते; सेयमभिधेयविशेषहेतुर्वैकल्यवद्रव्या नामापरा विशेषोक्तिः // एकेत्यादि / रथस्यैकं चक्रम् , यन्ता सारथिरनूरुर्विकलश्चरणहीनः, अश्वा 1. 'भृकुटिभङ्गादेः' इति क-पुस्तके पाठः.