________________ 1 परिच्छेदः / सरखतीकण्ठाभरणम् / 1503 - तेभयन्यासो यथा 'ते विरला सप्पुरिसा जे अभणन्ता घडन्ति कज्जालावे / थोअच्चिअ ते वि दुमा जे अमुणिअकुसुमणिग्गमा देन्ति फलम् // [ते विरलाः सत्पुरुषा येऽभण्यमाना घटन्ते कार्यालापम् / ... स्तोका एव तेऽपि द्रुमा येऽज्ञातकुसुमनिर्गमा ददति फलम् // ] अत्र विद्यमानमपि साध्यसाधनभावमप्रतिपाद्य यदुभयोर्वस्तुनोयसनं सोऽयमुभयन्यासः // . ते विरला इत्यादि / "ते विरलाः सत्पुरुषा येऽभण्यमाना घटन्ते कार्यालापम् / स्तोका एव तेऽपि दुमा येऽज्ञातकुसुमनिर्गमा ददति फलम् // " इह ते सज्जना विरलाः परिमिताः / अल्पा इति यावत् / ये कार्यार्थमालापमाज्ञामभण्यमाना घटन्ते कार्यारूढा भवन्ति, तेऽपि वृक्षाः स्तोका एवाल्पा एव येऽज्ञातपुष्पोद्माः सन्तः * फलं ददति / अभण्यमाना इति णिज्गर्भत्वेन द्विकर्मकता। यद्वा कार्यालापे कार्यकरणे घटन्ते / कीदृशाः। अभण्यमाना अनुक्ताः। 'आलापो वचने कृतौ' इति शाश्वतः / अत्र हेतुहेतुमद्भावपुरस्कारेणोभयोरुपन्यासः // प्रत्यनीकन्यासो यथा'विरला उवआरिच्चिअ णिरवेक्खा जलहरब वट्टन्ति / . झिज्जन्ति ताण विरहे विरलच्चिअ सरिप्पवाहव // 163 // विरला उपकृत्यैव निरपेक्षा जलधरा इव वर्तन्ते / ____क्षीयन्ते तेषां विरहे विरला एव सरित्प्रवाहा इव // ] अत्र यदिदमुपकृत्यानपेक्षितप्रत्युपकाराणां गमनम् , यच्चाकृतप्रत्युपकाराणां तद्विरहेऽवसादनं तदुभयमपि जलधरसरित्प्रवाहयोरन्योन्यातिशयितयोरुपन्यस्यमानं प्रत्यनीकन्यासो भवति // विरला इत्यादि / “विरला उपकृत्यैव निरपेक्षा जलधरा इव वर्तन्ते / क्षीयन्ते तेषां विरहे विरला एव सरित्प्रवाहा इव // " इह ये उपकृत्य उपकारं कृत्वा निरपेक्षाः प्रत्युपकारानपेक्षा वर्तन्ते ते विरला अल्पाः। मेघा इव / यथा मेघा उपकारं कृत्वा प्रत्युपकारनिस्पृहा वर्तन्ते तथेत्यर्थः / तेषामुपकारिणां विरहे विरला एव