________________ 502 काव्यमाला / . कारणमुपन्यस्य जलाविलदोषवत्या अपि सजो यदत्यागकारणं तदिह वैधर्म्यद्वारेण प्रतिपादितमतो वैधयेणायमर्थान्तरन्यासः // .. प्रियेणेत्यादि / काचिनारी जलाविलामपि स्रजं मालां न विजहो न तत्याज। कीदृशीम् / प्रियेण संग्रथ्य प्रथित्वा मांसलकुचवति हृदये विपक्षस्य सपन्याः समीपे उपाहितामारोपिताम् / अत्रोपपत्तिमाह-हि यतः प्रेम्णि प्रीतौ गुणा वसन्ति न वस्तुनि गुणा वसन्ति / अत्र जलाविलमालाया अप्यत्यागहेतुर्वसन्तीत्यादिना वैधर्म्यपुरस्कारेणोक्तः // विपर्ययेण यथा- . 'जो जस्स हिअअदइओ दुक्खं देन्तो वि सो सुहं देइ / दइअणहदूमिआणं वि वड्डीइ त्थणआणं रोमञ्चो // 161 // ' यो यस्य हृदयदयितो दुःखं दददपि स सुखं ददाति / दयितनखदूनयोरपि वर्धते स्तनयो रोमाञ्चः // ] अत्र साधनसमर्थ वस्तु प्रथमत एवोपन्यस्य पश्चात् तत्साध्यमभिहितमिति विपर्यासादयं विपर्ययो नामार्थान्तरन्यासः // जो इत्यादि / “यो यस्य हृदयदयितो दुःखं दददपि स तथा तस्य / दयितनखदुःखितयोरपि वर्धते स्तनयो रोमाञ्चः // " इह यो यस्य हृदयप्रियः स दुःखं दददपि तस्य तथा प्रिय एव / अत्र हेतुः-दयितनखेन दुःखितयोरपि स्तनयो रोमाञ्चो वर्धते। दददित्यत्र 'नाभ्यस्ताच्छतुः 7 / 1 / 78' इति निषेधः / अत्र प्रथम हेतुरुक्तस्ततस्तत्कार्यमुक्तमिति विपरीतता // उभयन्यासस्यार्थान्तरन्यासादमेदमाह प्रोक्तो यस्तूभयन्यासोर्थान्तरन्यास एव सः / स प्रत्यनीकन्यासश्च प्रतीकन्यास एव च // 69 // प्रोक्त इति / प्रत्यनीकः परिपन्थी, प्रतीकोऽवयव एकदेश इति यावत् / 'अझं प्रतीकोऽवयवः' इत्यमरः॥