________________ 4 परिच्छेदः / सरखतीकण्ठाभरणम् / अर्थान्तरन्यासालंकारः / अर्थान्तरन्यासं लक्षयति: ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किंचन / : तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः // 67 // स उपन्यस्तवस्तूनां साधर्येण च कथ्यते / - वैधयेण च विद्वद्भिर्वैपरीत्येन कुत्रचित् // 68 // .. शेयमिति / किंचन किमपि वस्तु वाच्यं प्रस्तुत्य प्रक्रम्य तद्वस्तुसाधनसमर्थस्यान्यस्य वस्तुनो वाक्यार्थन्यास उपन्यासो यः सोऽर्थान्तरन्यासः / वैपरीत्यं विपर्ययः // तेषु साधर्म्यण यथा 'पयोमुचः परीतापं हरन्त्येते शरीरिणाम् / नन्वात्मलाभो महतां परदुःखोपशान्तये // 159 // अत्र परीतापापहरणक्षमस्य जलदाख्यस्य महावस्तुनो न्यसनं विधाय तत्साधनसाधर्येणैव तत्साधनक्षमं महापुरुषलक्षणं वस्त्वन्तरमुपन्यस्यति, सोऽयं साधये॒णार्थान्तरन्यासः // पयोमुच इत्यादि / एते मेघाः शरीरिणां परितापं हरन्ति / ननु निश्चये। महतामात्मलाभोऽवस्थितिः परदुःखोपशान्त्यर्थं भवति / अत्र पूर्वार्धापस्थापितार्थसिद्धये साधर्म्यपुरस्कारेणोत्तरार्धोपन्यासः स्फुट एव // वैधयेण यथा- .. . 'प्रियेण संग्रथ्य विपक्षसंनिधा___ वुपाहितां वक्षसि पीवरस्तने / स्रजं न काचिद्विजहौ जलाविलां . वसन्ति हि प्रेम्णि गुणा न वस्तुनि // 160 / / . अत्रापि प्रियतमेन वयं कान्ताहृदये समारोपितायाः स्रजः प्रेम