________________ 500 काव्यमाला। क्रियासूत्तिष्ठमानो न रुध्यते कथमयं न जीवतीति / किं तर्हि कारणमेवाक्षिप्यते-'तथापि नास्त्यस्य जीवितेऽध्यवसाय' इति / सोऽयमाक्षेप एव न रोधः // गमिआ इत्यादि / 'गमिताः कदम्बवाता दृष्टं मेघान्धंकारितं गगनतलम् / सोढो गर्जितशब्दस्तथापि खल्वस्य नास्ति जीविते आसङ्गः // " इहास्य रामस्य तथापि जीविते प्राणधारणे आसङ्गोऽध्यवसायो नास्ति / खलु निश्चये वाक्यभूषायां वा / यद्यपि कदम्बपुष्पसंपर्किणो वाता गमिता नीताः, दृष्टं मेघान्धकारयुक्तं गगनतलम् , गर्जितरूपः शब्दः सोढः श्रुतः / इहासह्यसहनेऽपि जीवितानध्यवसाये प्रेमातिशयो हेतुः / प्रयाणोचितकाले शरद्यपि यदि न गमनं स्यात्तदा प्रियासमागमो मे न स्यादिति बुद्धिः / यद्वा नेतव्यकालस्य घोरत्वाद्दुर्गवासरयोरध्यवसायः / यद्वा कदम्बवाता गमिताः, विकसदमलकमलवाताः कथं गमितव्याः / मेघान्धकारितं गगनतलं दृष्टम् , शरच्चन्द्रचन्द्रिकाधवलितं कथं द्रष्टव्यम् / गर्जितशब्दः सोढः, कलहंसकलरवः कथं सोढव्य इति विमर्शनानध्यवसायः / यद्वा एतैरेवानर्थसाथैः कदर्थिता व्यर्थप्रत्याशासमर्थना सीता यदि मृता स्यात्तदा मदीयाशानाश एव भवेदितिबुद्ध्यानध्यवसायः / अत्र जीवनक्रियायामुपस्थितस्य न रोधः, किं तु कारणाक्षेप एवेत्याक्षेपता // . क्रियोद्यतस्यापि वारणे कारणानामन्यपरत्वे रोधो न भवति / यथा - . 'धनं च बहु लभ्यन्ते सुखं क्षेमं च वर्त्मनि / . न च मे प्राणसंदेहस्तथापि प्रिय मा म गाः // 158 // ' ___ अत्र यद्यपि यात्रोद्यतः प्रियो रुध्यते / प्रभूतार्थलाभादीनां कारणानां गमनपरत्वमेव न निवारणपरत्वम् ; अतोऽयं न रोधः, किं तर्हि आक्षेप एव भवति // धनमित्यादि / हे प्रिय, यद्यपि तें तव धनं बहु प्रचुरं लभ्यं प्राप्यम् / वर्त्मनि सुखम् ; न दुर्गो मार्गः / क्षेमं कुशलं च चौराद्यनुपहतेः / न च मे प्राणसंशयोंऽस्ति / तथापि त्वं मा गाः स्म मायासीः / 'कुशलं क्षेममस्त्रियाम्' इत्यमरः। अत्र प्रचुरधनलाभादिहेतूनां गमनपरत्वेनाक्षेपता // इत्याक्षेपालंकारनिरूपणम् //