________________ 4 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 499 कुचभरावरुद्धगताभ्यां न दृश्यते / अत्रानया नेत्राभ्यामन्यमीक्षमाणया यथाहं न दृष्ट इत्यहं क्षीणस्तथा मध्योऽपि तेनैव क्षीणतापन्न इति लक्ष्यते / इहापि किमो निषेधार्थत्वं युक्त्यैव ज्ञायते // निषेध एवोक्त्या प्रतिकूलोऽनुकूलश्च यथा'भृकुटिरारचिता गतमग्रतो हृतमथाननमुक्तमसाधु वा / इयमतिप्रभुता क्रियते बलादकुपितोऽपि हि यत्कुपितो जनः 156' अत्र 'अकुपितोऽपि कुपितः क्रियते' इति योऽयं निषेधाक्षेपरूप उपालम्भः, तत्र च 'भ्रकुटिरारचिता-' इत्यादिवैयात्येन प्रतिकूलं कारणमुपन्यस्य, 'सेयमतिप्रभुता, सोऽयं बलात्कारः' इति काका वाचनिकमेवोपालम्भमभिधत्ते; तेनायमौक्तः प्रतिकूलश्च निषेधाक्षेपो रोध इत्युच्यते // अयमेव चास्या अवयात्योक्तिपक्षे खरूपाख्यानादौक्तोऽनुकूलनिषेधाक्षेपो रोधो भवति / / भ्रुकुटिरित्यादि / इयमतिप्रभुता बलात्कारः / हि यतोऽकोपवानपि जनो बलात्कारेण कोपवान् क्रियते / तदाह-त्वया भ्रुकुटिर्धकौटिल्यमारचितम् / अग्रतोऽग्रे गतम् / अनन्तरमाननं चुम्वनादपहृतम्। असाधूक्तं च / वाशब्दश्चार्थे / अत्र धाष्य॑न प्रतिकूलकारणमुपन्यस्य काक्का वाचनिक एवोपालम्भः / अस्या अधार्यपक्षे खरूपाख्यानपरमिदमित्युक्तानुकूलनिषेधाक्षेपरोधोऽप्ययमित्याह-अयमिति // यदा तु कारणमुपन्यस्यापि क्रियासूत्तिष्ठमानो न रुध्यते तदाक्षेप एव न रोधः / तद्यथा'गमिआ कलम्बवाआ दि8 मेहन्धआरिअं गअणअलम् / सहिओ गजिअसदो तह वि हु से णत्थि जीविए आसंगो // [गमिताः कदम्बवाता दृष्टं मेघान्धकारितं गगनतलम् / सोढो गर्जितशब्दस्तथापि खल्वस नास्ति जीवितेऽध्यवसायः // ] अत्र कदम्बवातातिवाहनादीनां जीविताध्यवसायहेतूनामुपन्यासेऽपि