________________ 198 काव्यमाला / ग्रामः-' इत्यादि कारणमुक्त्वा ततः किं म्रियताम्' इति प्रातिकूल्येन रुध्यते / तत्र किमः काका सासूयप्रश्नार्थस्य युक्त्या निषेधार्थत्वं गम्यते; सोऽयं योक्तः प्रतिकूलनिषेधाक्षेपो रोध इत्युच्यते // पउर इत्यादि / “प्रचुरयुवको ग्रामो मधुमासो यौवनं पतिः स्थविरः। जीर्णसुरा खाधीना असती मा भवतु किं म्रियताम् // " काचिद्वृद्धपतिका चलचितेति ज्ञात्वा कयाचित्कस्यैचित्कथितम् / सा तु तत्रोत्तरमाह-प्रचुर इति / प्रचुरा बहवो युवानस्तरुणा यत्र तादृशः / 'शेषाद्विभाषा 5 / 4 / 154' इति कप् / मधुमासो वसन्तः, यौवनम् , स्वामी स्थविरो वृद्धः / जीर्णसुरा पुराणमा स्वाधीनं निजायत्तमतोऽसती सा मा भवतु किं म्रियताम् / यद्यस्मिन् वत्सरे सा चञ्चला न स्यान्नियेतैवेत्यर्थः / सुरा जीर्णा प्रीतिकरीति मद्यपप्रसिद्धिः / अत्र किं म्रियतामिति किमः काकुगर्भतया सासूयप्रश्नार्थता युक्त्या निषेधविषयिणी ज्ञायत इति रोधोऽयम् // : युक्त्यैव निषेधेऽनुकूलो यथा'कह मा झिजउ मज्झो इमाइ केन्दोट्टदलसरिच्छेहिं / अच्छीहिं जो ण दीसइ घणथणभररुद्धपसरेहि // 155 // ' कथं मा क्षीयतां मध्योऽस्याः कुवलयदलसदृक्षाभ्याम् / . अक्षिभ्यां यो न दृश्यते घनस्तनभररुद्धप्रसराभ्याम् // ] अत्र 'स्तनादिवदस्या मध्योऽपि मा क्षीयताम्' इति निषेधवादी केनचिदानुकूल्येन रुध्यते / कथमयं मा क्षीयतामिति / योऽस्याः कुवलयदलसदृक्षाभ्यां लोचनाभ्यां घनस्तनरुद्धप्रसराभ्यां न दृश्यते / इयं ह्येताभ्यामन्यमीक्षमाणा यन्न पश्यति सोऽहमिव मध्योऽपि क्षीयमाणो लक्ष्यते तत्र किमः प्रश्नार्थत्वे निषेधार्थत्वं गम्यते; सोऽयं यौक्तोऽनुकूलश्च निषेधाक्षेपो रोध इत्युच्यते // कहमित्यादि / “कथं मा क्षीयतां मध्योऽस्याः कुवलयदलसदृक्षाभ्याम् / आक्षिभ्यां यो न दृश्यते घनस्तनभररुद्धप्रसराभ्याम् // " इहास्या नायिकाया मध्यः कथं मा क्षीयतां न क्षीणतां यातु / योऽस्याः कुवलयदलतुल्याभ्यामक्षिभ्यां निबिड...१. 'उप्पलिए कलमकन्दोट्टा' इति देशीनाममाला. .