________________ 4 परिच्छेदः / सरखतीकण्ठाभरणम् / 497 विप्रियमनिष्टं कर्तुमिच्छसि / कथं विप्रियता तत्राह-कीदृशस्य / दशवदनमेवात्मना हन्तुं त्वरितस्य, प्रभुणा जिघांसितस्य हि वधेऽपराध इति स एव पुरुषोत्तमस्तं घातयतु / समेतैर्भवदादिभिः साहाय्यमाचर्यतामित्याशयः / यच्छब्दो- . ऽव्ययत्वेनानेकार्थतया संबोधनार्थः / यद्वा जेशब्दः पादपूरणे / दशवदनपदमाकालाक्रमेणावृत्त्या हननद्वयान्वयि / अत्र रावणवधोद्यमो विधिरुक्त्यैव. जाम्बवता रुद्धोऽनुकूलतया हेतुमुद्भाव्येति रोधोऽयं विध्याक्षेपशेषः // . ... विधावेव युक्तयानुकूलः प्रतिकूलश्च यथा 'गच्छेति वक्तुमिच्छामि त्वत्प्रियं मत्प्रियैषिणी / . निर्गच्छति मुखाद्वाणी मा गा इति करोमि किम् // 153 // ' .. अत्र यथोक्तमुक्त्वा 'किं करोमि' इत्यानुकूल्येनैवाह / अत्र किमः प्रश्नार्थत्वेऽपि युक्त्या निषेधार्थत्वं गम्यते, सोऽयं यौक्तोऽनुकूलश्च विध्याक्षेपो रोध इत्युच्यते // अयमेव चास्या वैयात्योक्तिपक्षे योक्तः प्रतिकूलविध्याक्षेपो रोधो भवति // गच्छेत्यादि / हे सखि, त्वप्रियं गच्छेति वक्तुमिच्छामि / मन्त्रियैषिणी स्त्रीत्वेन स्त्री प्रियत्वान्मा गा इति वाणी मम मुखान्निर्गच्छतीति किं करोमि / 'मत्प्रियं त्वत्प्रियैषिणी' इति पाठे तु त्वत्प्रियैषिण्यहं गच्छेति विवक्षामि, मत्प्रियं यथा भवति तथा मा गा इति वाणी निःसरतीति योज्यम् / अत्र किं करोमीत्यस्य युक्त्या प्रकृतोपपत्त्या निषेधार्थतावगमः / यदि वैयाल्यात्प्रागल्भ्याद् विपरीतमभिधत्ते तदा मा गच्छेति वक्तुमिच्छामि, गच्छेति वाणी निःसरतीत्यत्र किं करोमीति तदा युक्तिसिद्ध एव रोधोऽयम् // युक्त्या निषेधे प्रतिकूलो यथा'पउरजुआणो गामो महुमासो जोवणं पई ठेरो। जुण्णसुरा साहीणा असई मा होउ किं मरउ // 154 // . [प्रचुरयुवा ग्रामो मधुमासो यौवनं पतिः स्थविरः। जीर्णसुरा खाघीना असती मा भवतु किं म्रियताम् // ]. अत्र 'असती मा भवतु' इति यः प्रतिषेधमाह स 'प्रचुरयुवा 32 स० क.