________________ 504 काव्यमाला। क्षीयन्ते दुःखिता भवन्ति / नदीप्रवाहा इव / यथा नदीप्रवाहा उपकारिणां मेघानां विरहे क्षीणा भवन्ति तथेत्यर्थः / क्षीयन्त इति कर्मकर्तरि / क्षियोऽनात्मनेपदित्वात् / अवसदनमवसादः। भावे घञ् / अत्र मेघनदीप्रवाहयोमिथः समर्थयोः प्रत्यनीकभावः प्रतिपक्षता। प्रतिनिधिभूतमनीकं सैन्यं यस्य सः प्रत्यनीकः परिपन्थी। 'प्रति प्रतिनिधौ चिह्न' इति मेदिनीकारः / अनीकोऽस्त्री रणे सैन्ये' इति च // प्रतीकन्यासो यथा'का कथा बाणसंधाने ज्याशब्देनैव दूरतः / हुंकारेणेव धनुषः स हि विघ्नानपोहति // 164 // ' अत्र विघ्नप्रोत्सारणसमर्थाया बाणमोक्षलक्षणायाः क्रियायाः प्रथमावयवभूतं ज्याशब्दं धनुषो हुंकारमिवेति तत्साधनमुपन्यस्य प्रतीकन्यासनामानमर्थान्तरन्यासमभिधत्ते // का कथेत्यादि / बाणसंधाने धनुषि बाणारोपणे तस्य का कथा। तेन सर्वसिद्धेः / यतः स राजा दूरात् ज्याशब्देनेव विघ्नान्यपोहति वारयति / ज्याशब्देन कीदृशेन / धनुषो हुंकारेणेव / चापस्य हुंकारतुल्येनेत्यर्थः / दूरत इति पञ्चम्यां तसिः॥ विघ्नानीति / यद्यपि 'विघ्नोऽन्तरायः प्रत्यूहः' इत्यमराद्विघ्नशब्दे पुंस्त्वम्, तथापि 'लिङ्गमशिष्यं लोकाश्रयत्वात्' इति नपुंसकत्वमपि / अत एव ‘अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम्' इति रघुप्रयोगोऽपि / ‘स हि विघ्नानपोहतीति वा पाठः कर्तव्यः / अत्र ज्याशब्दस्य चापैकदेशस्य न्यसनात्प्रतीकन्यासता // इत्यर्थान्तरन्यासालंकारनिरूपणम् // विशेषालंकारनिरूपणम् / विशेषोक्तिलक्षणमाह गुणजातिक्रियादीनां यत्र वैकल्यदर्शनम् / विशेषदर्शनायैव सा विशेषोक्तिरिष्यते // 70 // : .. प्रत्येतव्येऽभिधेये च सा विशेषस्य कारणे / वैकल्यादर्शनेनापि क्वचिदप्युपपद्यते // 71 // गुणेति / विशेषदर्शनायाधिक्यख्यापनार्थं गुणादीनां मध्ये यत्तेषां वैकल्यदर्शनं विकलत्वाभिधानं सा विशेषोक्तिः / एकगुणहानिकल्पनया शेषगुणे दाढ्य