________________ 4 परिच्छेदः / ] सरखतीकण्ठाभरणम् / मिश्रो यथा-.. 'सच्चं गुरुओ गिरिणो को भणइ जलासआ ण गम्मीरा / / धीरेहिं उवम माउं तह वि खु मह णस्थि उच्छाहो // 150 // [सत्यं गुरवो गिरयः को भणति जलाशया न गम्भीराः / धीरैरुपमातुं तथापि खलु मम नास्त्युत्साहः // ] अत्र 'सत्यं गुरवो गिरयः' इति विधिः, 'क आह जलाशया न गम्भीराः' इति परमताक्षेपस्ताभ्यां गिरीणां गुरुत्वम् सागराणां च गाम्भीर्यं यदयमुत्तरार्धेन धीरापेक्षया निषेधति, अन्यापेक्षया तत्तदेव विधत्ते; स एष मिश्रो निषेधाक्षेपः // . . . . . . सञ्चमित्यादि / 'सत्यं गुरवो गिरयः को भणति जलाशया न गम्भीराः। धीरैरुपमातुं तथापि मम नास्त्युत्साहः // इह पर्वता निश्चितं गुरुत्वाश्रयाः / को वदति जलाशयाः सागरा न गम्भीराः किंतु गम्भीरा एव / गिरिसागरौ धीरैः सहोपमातुं सदृशीकर्तुं तथापि मम नोत्साहोऽस्ति धीराणां तयोराधिक्यात् / ‘जलाशयो जलाधारः' इति कोषाद्यद्यपि जलाशयपदं जलाधारमात्रार्थकं तथाप्यतिगाम्भीर्ययोग्यतया सागरपरम् / अत्र विधिनिषेधाभ्यां गुरुत्वगाम्भीर्यनिषेधोऽन्यापेक्षया विधिश्चेति मिश्रता // 'रोधो नाक्षेपतः पृथक्' इति यदुक्तं तंत्रतावान्विशेषः क्रियासूत्तिष्ठमानस्य वारणं कारणेन यत् / उक्त्या युक्त्या च रोधो य आक्षेपः सोऽयमुच्यते // 65 // प्रतिकूलोऽनुकूलश्च विधौ रोधोऽभिधीयते / निषेधेऽप्युक्तियुक्तिभ्यां द्विप्रकारः स कथ्यते // 66 // . रोधे विशेषमाह-क्रियाविति / क्रियासूद्योगिनां हेतुद्वारा यन्निवारणमुक्त्या युक्त्या च स रोधः / स च शेषीभूत आक्षेप एव / विधिनिषेधयोगित्वमथाक्षेपसाधारण्यम् // 65 // 66 //