________________ 494 काव्यमाला। - मिश्रो यथा- 'अलं विवादेन यथा श्रुतं त्वया तथाविधस्तावदशेषमस्तु सः।। ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते 1481 अत्र 'अलं विवादेन' इति निषेधेन, 'तथाविधः सोऽस्तु- इति विधिना च तन्मतमवस्थाप्य, 'ममात्र भावैकरसं मनः स्थितम्' इति विधिना, 'न कामवृत्तिर्वचनीयमीक्षते' इति प्रतिषेधेन च यत्पुनराक्षिपति; सोऽयं विधिनिषेधाभ्यां विधिमिश्र आक्षेपो भवति // __ अलमित्यादि / त्वया यथा श्रुतं तत्र विवादेनालं निष्फलम् / अशेषं समग्रं यथा स्यादेवं स तावत्तथाविध एवास्तु / मम मनोऽत्र भावैकरसमभिप्रायवशं स्थितमस्ति / यद्यपि भवे विरूपाक्षत्वादिकं त्वदुक्तं वर्तते, तथापि मन्मनस्तदेक परमित्यर्थः / अत्र हेतुः कामवृत्तिरिच्छाव्यापारो वचनीयं वक्तव्यं नेक्षते न पश्यति। इच्छा न परार्थयोज्या भवतीत्यर्थः / अत्र निषेधविधिभ्यां तन्मतस्थापनरूपस्य विधेविधिनिषेधाभ्यामाक्षेप इति विध्याक्षेपोऽयं मिश्रः // निषेधाक्षेपः शुद्धो यथा- , 'कुतः कुवलयं कर्णे करोषि कलभाषिणि / किमपाङ्गमपर्याप्तमस्मिन्कर्मणि मन्यसे // 149 // ' अत्र 'कुतः कुवलयं कर्णे करोषि' इत्यस्य निषेधवाक्यस्य 'किमपाङ्गम्-' इत्यादिना प्रश्नपरेणापि निषेधपर्यवसायिना वाक्येन समर्थन क्रियत इत्ययं शुद्धो निषेधाक्षेपः // ' 'कुत इत्यादि / हे कलभाषिणि मधुरवचने, कस्मान्नीलोत्पलं कर्णे करोषि / कुत इति प्रतिषेधे हेतुमाह-अस्मिन् कर्मणि कामिवशीकरणादों किमपाङ्गं नेत्रप्रान्तमपर्याप्तमसमर्थ त्वं मन्यसे / अत्र निषेधस्य निषेधपर्यवसायिवाक्येन क्षेपणान्निषेधाक्षेपः / शुद्धता च कैवल्येन // ' 1. कामावृत्तिः स्वेच्छाव्यवहारी वचनीयमस्थानसङ्गापवादं नेक्षते न विचारयति / नहि खेच्छाचारिणो लोकापवादाद्विभ्यतीति भावः।' इति मल्लिनाथव्याख्यानमेवात्र साधीयः.