________________ 493 4 परिच्छेदः।] सरखतीकण्ठामरणम् / अत्रापि योऽयं 'अक्षिध्रुवम्', 'शरकार्मुकम्', इत्येतयोः 'द्वन्द्वश्व प्राणितूर्यसेनाङ्गानाम् 2 / 4 / 2' इति, 'वाङ्मनसाक्षिध्रुव-५।४।७७' इति च विशेषलक्षणयोगस्तेन धवखदिरपलाशमित्येवमादिषु नातिप्रसङ्गो भवति // स्त्रीणामित्यादि / यत्र नगरे मनोभुवा कामेन तन्मुखे स्त्रीणां मुखेऽक्षिध्रुवनिभं नेत्रभूव्याजं शरकार्मुकं न्यस्तमारोपितम् / स्त्रीणां हावैः शृङ्गारजक्रियामिनिजकार्ये मनश्चापलादौ कृते सति / 'हावाः क्रियाः शृङ्गारभावजाः' इत्यमरः / अत्रापि विशेषलक्षणाभ्यामेव वक्रोक्तिता // इति समुच्चयालंकारनिरूपणम् // . आक्षेपालंकारनिरूपणम् / आक्षेपं लक्षयति विधिनाथ निषेधेन प्रतिषेधोक्तिरत्र या / शुद्धा मिश्रा च साक्षेपो रोधो नाक्षेपतः पृथक् // 64 // विधिनेति / विधिना हेतुना प्रतिषेधेन वा हेतुना या प्रतिषेधस्योक्तिर्निर्वचनं सा आक्षेपः / रोधः पुनराक्षेप एवेत्याह-रोध इति / आक्षेपलक्षणेनैव गृहीतत्वाद्रोधो न ततो भिन्न इत्यर्थः // तत्र विध्याक्षेपः शुद्धो यथा 'गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः / ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् // 147 / ' अत्र 'गच्छ' इत्यस्य विधिवाक्यस्य 'ममापि जन्म तत्रैव भूयात्' इत्याशिषानुकूलतयैव मरणसूचनान्निषेधः क्रियत इति शुद्धोऽयं विध्याक्षेपः // गच्छेत्यादि / इह हे कान्त वल्लभ, चेद्यदि गच्छसि तदा गच्छ / विदेशमिति शेषः / मया न रोधः क्रियते / किंतु भवान्यत्र गतो भूयात्तत्रैव ममापि जन्म भूयादिति / परं वदामीति शेषः / अत्र गमनस्य विधिरूपस्य जन्म भूयादित्यनेन विधिरूपेणैव त्वयि गते मया मर्तव्यमिति मरणसूचनाद्विधिना गमनप्रतिषेधोक्तिः अन्यासंकरेण च शुद्धता //