________________ 492 काव्यमाला। एकविषयेऽन्वयः, अत्रत्वन्वये कालभेदो विषयभेदश्चेति भेदादित्यर्थः / उक्तवैध hयोः समुचये सत्त्वमाशय परिहरति-किंत्विति / समुच्चये उभयधर्मवत्त्वेऽपि समुच्चयत्वेनैव विषयपरिहारः, इह तु विवक्षयैव विनिगमनेत्याशयः॥ . समासेऽपीतरेतरयोगादनुभयाश्रयः समुच्चयभेदो यथा 'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये / जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ // 145 // अत्र 'वागर्थाविव' इति परवल्लिङ्गता 'संपृक्तौ पितरौ' इत्यत्र योऽयं 'पुमान् स्त्रिया 1 / 2 / 67', 'पिता मात्रा 1 / 2170' इति चैकशेषस्तेनैष विशेषलक्षणयोगाद्वक्रोक्तित्वे सत्यलंकारतां लभत इति; न धवखदिरादिष्वतिप्रसङ्ग इत्ययमपि समुच्चयभेदः / / वागर्थावित्यादि / अहं गौरीहरौ वन्दे नमामि / किमर्थम् / वाक् चार्थश्च तयोः प्रतिपत्तये निश्चयाय। कीदृशौ / वागर्थाविव शब्दतदभिधेयाविव संपृक्तो संबद्धौ / यथा शब्दस्तद्वाच्योऽर्थश्च द्वौ नित्यसंबद्धौ वाच्यवाचकत्वसंबन्धेन तथा यौ नित्यसंबद्धावित्यर्थः / जगतो लोकस्य पितरौ मातृजनको / पिता च माता चेति द्वन्द्वे 'पिता मात्रा 1 / 2 / 70' इत्येकशेषे पितराविति / पार्वत्या मातृत्वेन मातुश्चातिगौरवेणाभ्यर्हितत्वात्पूर्वनिपातः। 'सहस्रेण पितुर्माता गौरवेणातिरिच्यते।' इति स्मृतिः। अनेनार्धनारीश्वर उक्तः / यद्वा पार्वतीं पातीति पार्वतीपो हरः, रमाया लक्ष्म्या ईश्वरो हरिस्तौ वन्दे / यद्वा पार्वतीपरो हरो माया लक्ष्म्या ईश्वरो हरिस्तो हरहरी वन्दे / कीदृशौ। लोकस्य पितरौ जनको / अन्यत्तुल्यमेव / एतेन हरिहररूपमुक्तमिति कुव्याख्या / 'रमा लक्ष्म्यामपीष्यते' इति विश्वः / 'मा च लक्ष्मीनिंगद्यते' इत्येकाक्षरः / परवल्लिङ्गता अर्थशब्दलिङ्गता। संपृक्ता च संपृक्तश्चेत्यत्र 'पुमान् स्त्रिया 1 / 2 / 67' इत्येकशेषः / अतएवोक्तेर्वक्रतयेहालंकारता / न च धवखदिरावित्यादिषु वक्रोक्तिरतो नालंकारता // समाहारयोगादपि यथा'स्त्रीणां हावैः कृते यत्र निजकार्ये मनोभुवा / अक्षिभ्रुवनिभं न्यस्तं तन्मुखे शरकार्मुकम् // 146 //