________________ 4 परिच्छेदः। सरखतीकण्ठाभरणम् / त्र नक्त तदेति / बहुपदाश्रय उत्तरपदाश्रितचकारेणेतरेतरयोगो भवतीत्याह-एव. मिति / समाहारमिति / विचिन्त्यमानमिति श्लोके इदमित्येकत्वक्लीबत्वाभ्यां समाहार उक्त इत्यर्थः / द्रव्यादिविषयत्वे इतरेतरयोगसमाहारयोः सत्त्वादन्वाचये विषयान्तरमाह-क्रियेति // ___ एवमपरेऽपीतरेतरयोगेऽपि चयोगा उदाहार्याः / समाहारस्तु चयोगविषयो विचिन्त्यमानमित्यादिनैवोक्तः, अन्वाचयस्तु क्रियाविषय एवोपपद्यते / तत्र चोत्तरपदाश्रय एव चकारो भवति // यथा 'गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं ___ रुद्धालोके नरपतिपथे सूचि भेद्यैस्तमोभिः / सौदामिन्या कनकनिकषस्निग्धया दर्शयोवीं ___तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्ताः // 144 अत्र पूर्वं 'दर्शय' इत्युर्वीकर्मविषयत्वेन क्रियामपन्यस्य 'तोयोत्सर्गस्तनितमुखरो मा च भूः' इति तत्कर्तर्येव धर्मिण्यकर्मक क्रियान्तरमन्वाचीयते, सोऽयं भिन्नकालत्वभिन्नविषयत्वाभ्यामन्वाचयः समुच्चया. द्भिन्नो भवति // ____ नन्वेवं यदि समुच्चयेऽपि भिन्नविषये क्रिये तुल्यकालमेव प्रयुज्येते; को दोषः स्यात् / न कश्चित्.। किंतु तस्य समुच्चयमुद्रया विषयोऽपहृत इति नोदाह्रियते // गच्छन्तीनामिति / तत्र स्त्रीणां सौदामिन्या विद्युता त्वमुर्वी भूमिं दर्शय / कीदृशीनाम् / नक्तं रात्रौ पतिगृहं गच्छतीनाम् / कस्मिन् सति / सूच्यग्रभेदनीयैरन्धकारै राजमार्गेऽवरुद्धदशने सति / सौदामिन्या कीदृश्या / कनकस्य हिरण्यस्य निकषः कषपट्टिकायां कषणरेखा तद्वत्स्निग्धया रम्यया तोयत्यागस्तनितमुखस्त्वं मा भूः मा भव / यतस्ता अनाथा विक्लवा विह्वलाः स्युः / 'निकषः कषरेखायां पट्टिकायां कषस्य च' इति मेदिनीकारः। 'स्तनितं घनगर्जितम्' इत्यमरः / माभूरित्यत्र 'न माड्योगे 6 / 4 / 74' इत्यनिषेधः / अत्राद्यक्रियामुक्त्वा द्वितीयक्रियाया अन्वाचयः / समुच्चया दमाह-भिन्नेति / समुच्चये एककालिक